SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०९ तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । सामायिकादि पञ्चधेति । समञ्चतीति सम्यक् अविपरीतम्, मोक्षसिद्धिं प्रतीत्यानुगुणमित्यर्थः, तच्च ज्ञानादीति । ___ उपहननमुपघात:, पिण्ड-शय्यादेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गमः पिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकादय: षोडश दोषाः। आहाकम्मु इत्यादि, इह चाभेदविवक्षया उद्गमदोषा एवोद्गमः, अतस्तेनोद्गमेनोपघात: पिण्डादेरकल्पनीयताकरणं चरणस्य वा शबलीकरणमुद्गमोपघात:, उद्गमस्य वा पिण्डादिप्रसूतेरुपघात: आधाकर्मत्वादिभिर्दुष्टता उद्गमोपघात:, एवमितरावपि, केवलमुत्पादना सम्पादनम्, गृहस्थात् पिण्डादेरुपार्जनमित्यर्थः, तद्दोषा धात्रीत्वादय: षोडश, धाइदूइ इत्यादि । ___ तथा एषणा गृहिणा दीयमानपिण्डादेर्ग्रहणम्, तद्दोषा: शङ्कितादयो दशेति, संकियमक्खिय इत्यादि । एवमुद्गमादिभिर्दोषैरविद्यमानतया या विशुद्धिः पिण्ड-चरणादीनां निर्दोषता सा उद्गमादिविशुद्धिरुद्मादीनां वा विशुद्धिर्या सा तथेति, इदमेवातिदिशन्नाहएवं विसोही। तिविहा आराहणा त्ति ज्ञानस्य श्रुतस्याराधना कालाध्ययनादिष्वष्टस्वाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य नि:शङ्कितादिषु, चारित्रस्य समिति-गुप्तिषु, सा चोत्कृष्टादिभेदा भावभेदात् कालभेदाद्वेति । ज्ञानादिप्रतिपतनलक्षण: सक्लिश्यमानपरिणामनिबन्धनो ज्ञानादिसङ्क्लेशः, ज्ञानादिशुद्धिलक्षणो विशुद्ध्यमानपरिणामहेतुकस्तदसङ्क्लेशः । एवमिति, ज्ञानादिविषया एवाऽतिक्रमादयश्चत्वारः, तत्राधाकर्माश्रित्य चतुर्णामपि निदर्शनम् आहाकम्मामंतण पडिसुणमाणे अइक्कमो होइ १।। पयभेयादि वइक्कम २ गहिए तइए ३ यरो गिलिए ४ ॥ [व्यवहारपीठिका ४३] त्ति । इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञान-दर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तक-चैत्यादीनामुपघाताय मिथ्यादृशामुपबृंहणार्थं वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति । तिण्हं अइक्कमाणं ति षष्ठ्या द्वितीयार्थत्वात् त्रीनतिक्रमानालोचयेत् गुरवे निवेदयेदित्यादि प्राग्वत्, नवरं यावत्करणात् 'विसोहेजा विउद्देज्जा अकरणयाए अब्भुटेजा अहारिहं तवोकम्मं पायच्छित्त'मित्य
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy