________________
१९५
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । तपोविभूतिजं तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स सङ्क्षिप्तविपुलतेजोलेश्यः । आतापनानां शीतादिभिः शरीरस्य सन्तापनानां भाव आतापनता शीतातपादिसहनमित्यर्थः, तया, क्षान्त्या क्रोधनिग्रहेण क्षमा मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा, तया, अपानकेन पारणककालादन्यत्र तप:कर्मणा षष्ठादिनेति, अभिधीयते च भगवत्याम्
जे णं गोसाला ! एगाए सनहाए कुम्मासपिंडियाए एगेण य वियडासणेणं छठें छटेणं अणिक्खित्तेणं तवोकम्मेणं उड़े बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ से णं अंतो छण्हं मासाणं संखित्तविपुलतेयलेस्से भवइ [भगवती०१५।५४]
त्ति ११ ।
तेमासियमित्यादि, भिक्षुप्रतिमा: साधोरभिग्रहविशेषाः, ताश्च द्वादश, तत्रैकमासिक्यादयो मासोत्तरा: सप्त, तिस्रः सप्तरात्रिन्दिवप्रमाणा: प्रत्येकम्, एका अहोरात्रिकी, एका एकरात्रिकीति । ___तत्र त्रिमासिकी तृतीया, तां प्रतिपन्नस्य आश्रितस्य, दत्ति: सकृत्प्रक्षेपलक्षणेति १२। एकरात्रिकी द्वादशी, तां सम्यगननुपालयत: उन्मादः चित्तविभ्रमः, रोग: कुष्ठादिः, आतङ्कः शूल-विशूचिकादि: सद्योघाती, स च स चेति रोगातङ्कम्, पाउणेज त्ति प्राप्नुयात्, धर्मात् श्रुत-चारित्रलक्षणात् भ्रश्येत्, सम्यक्त्वस्यापि हान्येति, उन्माद-रोग-धर्मभ्रंशा: प्रतिमाया: सम्यगननुपालनाजन्या अहिताद्यर्थाः दुःखार्था भवन्तीति हृदयम् १३ । विपर्ययसूत्रमेतदनुसारतो बोद्धव्यमिति १४।
[सू० १८९] जंबूदीवे दीवे ततो कम्मभूमीओ पन्नत्ताओ तंजहा- भरहे, एरवते, महाविदेहे १। एवं धायइसंडे दीवे पुरत्थिमद्धे जाव पुक्खरवरदीवड्डपच्चत्थिमद्धे २-५।।
[टी०] उक्तरूपाणि च साध्वनुष्ठानानि कर्मभूमिष्वेव भवन्तीति तन्निरूपणायाहजंबूदीवेत्यादिसूत्राणि साक्षादतिदेशाभ्यां पञ्च सुगमानि चेति । _[सू० १९०] तिविधे दंसणे पन्नत्ते, तंजहा-सम्मइंसणे, मिच्छइंसणे, सम्मामिच्छइंसणे ।