________________
१९४
परित्यागतो वेदितव्या, उक्तं च
बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥ [पिण्डनि० ६४२] कवलाण य परिमाणं कुक्कुडिअंडगपमाणमेत्तं तु । जो वा अविगियवयणो वयणम्मि छुहेज वीसत्थो ॥ [ ] त्ति । इयं चाष्ट १ द्वादश २ षोडश ३ चतुर्विंशत्ये ४ कत्रिंशदन्तैः कवलैः ५ क्रमेणाल्पाहारादिसंज्ञिता पञ्चविधा भवति ।
एवम् अनेनानुसारेण पानेऽपि वाच्या । भावोनोदरता पुन: क्रोधादित्यागः, उक्तं चकोहाईणमणुदिणं चाओ जिणवयणभावणाउ य । भावेणोमोदरिया पन्नत्ता वीयरागेहिं ॥ [ ]६।
उपकरणावमोदरिकाया भेदानाह- उवकरणेत्यादि, एकं वस्त्रं जिनकल्पिकादेरेव, एवं पात्रमपि, एगं पायं जिणकप्पियाणं[ओघनि० ६७९]इति वचनादिति, तथा चियत्तेणं संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा चियत्तस्स वा संयमिनां संमतस्य उपधे: रजोहरणादिकस्य साइजणय त्ति सेवा चियत्तोवहिसाइजणय त्ति ७। चियत्तेणेति प्रागुक्तम्, एतद्विपर्ययभेदान् सफलानाह– तओ इत्यादि स्पष्टम्, किन्तु अहिताय अपथ्याय असुखाय दु:खाय अक्षमाय अयुक्तत्वाय अनिःश्रेयसाय अमोक्षाय अनानुगामिकत्वाय न शुभानुबन्धायेति, कूजनता आर्त्तस्वरकरणम्, कर्करणता शय्योपध्यादिदोषोद्भावनगर्भं प्रलपनम्, अपध्यानता आर्त्त-रौद्रध्यायित्वमिति८। उक्तविपर्ययसूत्रं व्यक्तम् ९ ।
निर्ग्रन्थानामेव परिहर्त्तव्यं त्रयमाह- तओ इत्यादि, शल्यते बाध्यते अनेनेति शल्यम्, द्रव्यतस्तोमरादि, भावतस्तु इदं त्रिविधं- माया निकृति:, सैव शल्यं मायाशल्यम्, एवं सर्वत्र, नवरं नितरां दायते लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवर्द्धयादिप्रार्थनपरिणामनिशितासिनेति निदानम्, मिथ्या विपरीतं दर्शनं मिथ्यादर्शनमिति १० ।
निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह तिहिं त्ति सङ्क्षिप्ता लघूकृता विपुलाऽपि विस्तीर्णाऽपि सती, अन्यथाऽऽदित्यबिम्बवत् दुर्दर्श: स्यादिति, तेजोलेश्या