________________
१९६
तिविधा रुती पन्नत्ता, तंजहा-सम्मरुती, मिच्छरुती, सम्मामिच्छरुती ॥
तिविधे पओगे पन्नत्ते, तंजहा-सम्मप्पओगे, मिच्छप्पओगे, सम्मामिच्छप्पओगे ३॥
[सू० १९१] तिविधे ववसाते पन्नत्ते, तंजहा-धम्मिते ववसाते, अधम्मिए ववसाते, धम्मियाधम्मिते ववसाते ४।
अथवा तिविधे ववसाते पन्नत्ते, तंजहा-पच्चक्खे, पच्चतिते, आणुगामिते ५।
अहवा तिविधे ववसाते पन्नत्ते, तंजहा-इहलोइए, परलोगिते, इहलोगितपरलोगिते ६।
इहलोगिते ववसाते तिविहे पन्नत्ते, तंजहा-लोगिते, वेतिते, सामतिते ७। लोगिते ववसाते तिविधे पन्नत्ते, तंजहा-अत्थे, धम्मे, कामे ८॥ वेतिते ववसाते तिविधे पन्नत्ते, तंजहा-रिव्वेदे, जजुवेदे, सामवेदे ९। सामतिते ववसाते तिविधे पन्नत्ते, तंजहा-णाणे, दंसणे, चरित्ते १०॥ तिविधा अत्थजोणी पन्नत्ता, तंजहा- साम, दंडे, भेदे ११॥ [टी०] उक्ता: कर्मभूमयः, अथ तद्गतजनधर्मनिरूपणायाह-तिविहेत्यादिसूत्राण्येकादश कण्ठ्यानि, किन्तु त्रिविधं दर्शनं शुद्धा-ऽशुद्ध-मिश्रपुञ्जत्रयरूपं मिथ्यात्वमोहनीयम्, तथाविधदर्शनहेतुत्वादिति १ । रुचिस्तु तदुदयसम्पाद्यं तत्त्वानां श्रद्धानम् २। प्रयोग: सम्यक्त्वादिपूर्वो मन:प्रभृतिव्यापार इति, अथवा सम्यगादिप्रयोग: उचितानुचितोभयात्मक औषधादिव्यापार इति ३ ।
व्यवसायो वस्तुनिर्णय: पुरुषार्थसिद्ध्यर्थमनुष्ठानं वा, स च व्यवसायिनां धार्मिकाऽधार्मिक-धार्मिकाधार्मिकाणां संयता-ऽसंयत-देशसंयतलक्षणानां सम्बन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमा-ऽसंयम-देशसंयमलक्षणविषयभेदाद्वा ४ ।
व्यवसायो निश्चयः, स च प्रत्यक्षोऽवधि-मन:पर्याय-केवलाख्यः, प्रत्ययात् इन्द्रियानिन्द्रियलक्षणानिमित्ताज्जातः प्रात्ययिकः, साध्यम् अग्न्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादिहेतु: सोऽनुगामी, ततो जातमानुगामिकम् अनुमानम्,