________________
१८९
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः ।। तस्याम्, प्रथमसमय एवेत्यर्थः, स आहर्त्तव्य: अभ्यवहार्यो भविष्यतीति द्वितीयम्, तथा कलमलो जठरद्रव्यसमूहः स एव जम्बाल: कईमो यस्यां सा तथा, तस्याम्, अत एवाऽशुचिकायाम् उद्वेजनीयायाम् उद्वेगकारिण्यां भीमायां भयानिकायां गर्भ एव वसतिर्गर्भवसतिस्तस्यां वस्तव्यमिति तृतीयम् । अत्र गाथे भवत:
देवा वि देवलोए दिव्वाभरणाणुरंजियसरीरा । जं परिवडंति तत्तो तं दुक्खं दारुणं तेसिं ॥ तं सुरविमाणविभवं चिंतिय चयणं च देवलोगाओ। अइबलियं चिय जं न वि फुटइ सयसक्करं हिययं ॥ [उप० माला २८४-२८५] ति । इच्चेएहीत्यादि निगमनम् । [सू० १८६] तिसंठिया विमाणा पन्नत्ता, तंजहा-वडा, तंसा, चउरंसा । तत्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वतो समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता एगतो वेतितापरिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चउरंसा विमाणा ते णं अक्खाडगसंठाणसंठिता सव्वतो समंता वेतितापरिक्खिता चउदुवारा पन्नत्ता १॥
तिपतिट्ठिया विमाणा पन्नत्ता, तंजहा-घणोदधिपतिट्टिता, घणवातपइट्ठिया, ओवासंतरपइट्टिता २॥ तिविधा विमाणा पन्नत्ता, तंजहा-अवट्ठिता, वेउव्विता, परिजाणिता ३॥ [टी०] अथ देववक्तव्यतानन्तरं तदाश्रयविमानवक्तव्यतामाह-तिसंठिएत्यादि सूत्रत्रयं स्फुटमेव, केवलं त्रीणि संस्थितानि संस्थानानि येषां तानि, त्रिभिर्वा प्रकारैः संस्थितानि त्रिसंस्थितानि, तत्थ णं ति तेषु मध्ये पुक्खरकण्णिय त्ति पुष्करकर्णिका पद्ममध्यभाग:, सा हि वृत्ता समोपरिभागा च भवति, सर्व्वत इति दिक्षु समन्तादिति विदिक्षु । सिंघाडगं ति त्रिकोणो जलजफलविशेष:, एकत एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः। अक्खाडगो चतुरस्र: प्रतीत एव, वेदिका मुण्डप्राकारलक्षणा, एतानि चैवंक्रमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथाऽपीति, भवन्ति चात्र गाथा: