________________
१८८
सामग्रीसद्भावेऽपि नो बहु श्रुतमधीतमित्येकम् । विसयतिसिएणं ति विषयतृषितत्वादिहलोकप्रतिबन्धादिना दीर्घश्रामण्यपर्यायापालनम् इति द्वितीयम् । तथा ऋद्धिः आचार्यत्वादौ नरेन्द्रादिपूजा रसा मधुरादयो मनोज्ञा: सातं सुखमेतानि गुरूणि आदरविषया यस्य सोऽयमृद्धि-रस-सातगुरुकस्तेन, भोगेषु कामेषु आशंसा च अप्राप्तप्रार्थनं गृद्धं च प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोप-ह्रस्वत्वे प्राकृततयेति, पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धम् अनतिचारं चरित्रं स्पृष्टमिति तृतीयम् । इत्येतैरित्यादि निगमनम् ।
[सू० १८५] तिहिं ठाणेहिं देवे चतिस्सामीति जाणति-विमाणाभरणाई णिप्पभाई पासित्ता, कप्परुक्खगं मिलायमाणं पासित्ता, अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता, इच्चेतेहिं [तिहिं ठाणेहिं देवे चतिस्सामीति जाणति] ७।
तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा, तंजहा-अहो णं मते इमातो एतारूवातो दिव्वातो देविड्डीओ दिव्वाओ देवजुतीतो लद्धातो पत्तातो अभिसमन्नागतातो चतियव्वं भविस्सति १, अहो णं मते मातुओयं पिउसुक्कं तं तदुभयसंसर्ट तप्पढमयाते आहारो आहारेयव्वो भविस्सति २, अहो णं मते कलमलजंबालाते असुतीते उव्वेयणिताते भीमाते गब्भवसहीते वसियव्वं भविस्सइ, इच्चेतेहिं तिहिं [ठाणेहिं देवे उव्वेगमागच्छेज्जा] ८॥
[टी०] तिहीं ति विमानाभरणानां निष्प्रभत्वमौत्पातिकं तच्चक्षुर्विभ्रमरूपं वा, कप्परुक्खगं ति चैत्यवृक्षम्, तेयलेस्सं ति शरीरदीप्तिं सुखासिकां वा, इच्चेतेहीत्यादि निगमनम्, भवन्ति चैवंविधानि लिङ्गानि देवानां च्यवनकाले, उक्तं चमाल्यम्लानि: कल्पवृक्षप्रकम्पः, श्री-ह्रीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागा-ऽङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥ [ ] इति ।
तिहीं ति उद्वेगं शोकं ‘मयेतश्च्यवनीयं भविष्यति' इत्येकम् । तथा मातुरोज: आर्तवं पितुः शुक्रं तत्तथाविधं किमपि विलीनानामतिविलीनं तयोः ओज:शुक्रयोरुभयं द्वयं तदुभयं तच्च तत् संसृष्टं च, संश्लिष्टं चेति वा, परस्परमेकीभूतमित्यर्थः, तदुभयसंसृष्टं तदुभयसंश्लिष्टं वा एवंलक्षणो य आहारः तस्य गर्भवासकालस्य प्रथमता तत्प्रथमता