________________
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः ।
१८७ तस्मात् तान् भगवतः पूज्यान् वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोम्यादरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमिति बुद्ध्या पर्युपासे सेवे इत्येकम् । एस णं ति एष: अवध्यादिप्रत्यक्षीकृतः, मानुष्यके भवे वर्तमान इति शेषः, मनुष्य इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किम्? अतिदुष्कराणां सिंहगुहाकायोत्सर्गकरणादीनां मध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, तत् तस्माद् गच्छामि, ते त्ति पूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षया बहुवचनमिति, तान् दुष्करदुष्करकारकान् भगवतो वन्द इति द्वितीयम्। तथा ‘माया इ वा पिया इ वा भज्जा इ वा भाया इ वा भगिणी इ वा पुत्ता इ वा धूया इ वे'ति यावच्छब्दाक्षेपः, स्नुषा पुत्रभार्या, तदिति तस्मात् तेषामन्तिके समीपे प्रादुर्भवामि प्रकटीभवामि, ता मे त्ति तावत् मे ममेति तृतीयम् ।
[सू० १८४] ततो ठाणाई देवे पीहेजा, तंजहा-माणुस्सगं भवं, आरिते खेत्ते जम्मं, सुकुलपच्चायातिं ५। ___ तिहिं ठाणेहिं देवे परितप्पेज्जा, तंजहा-अहो णं मते संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसि आयरिय-उवज्झाएहिं विजमाणेहिं कल्लसरीरेणं णो बहुते सुते अहीते १, अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामन्नपरिताते अणुपालिते २, अहो णं मते इड्डि-रस-सायगरुएणं भोगाससगिद्धेणं णो विसुद्धे चरित्ते फासिते ३, इच्चेतेहिं [तिहिं ठाणेहिं देवे परितप्पेजा] ६।। ___ [टी०] पीहेज त्ति स्पृहयेद् अभिलषेत्, मानुष्यकं भवं, आर्यक्षेत्रम् अर्द्धषड्विंशतिजनपदानामन्यतरत् मगधादि, सुकुले इक्ष्वाक्वादौ देवलोकात् प्रतिनिवृत्तस्याऽऽजाति: जन्म आयातिर्वा आगति: सुकुलप्रत्याजाति: सुकुलप्रत्यायातिर्वा, तामिति । परितप्पेज त्ति पश्चात्तापं करोति, अहो विस्मये सति विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च निष्पादितस्वविषये इत्यर्थः, क्षेमे उपद्रवाभावे सति सुभिक्षे सुकाले सति कल्यशरीरेण नीरोगदेहेनेति