________________
१८६
माजिगमिषति ते कालधर्मेण मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्त्तव्यता नाम तृतीयमिति ३ । इच्चे इत्यादि निगमनम्।। __तदागमनहेतुमाह- देवकामेषु कश्चिदमूर्च्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवं भूतं भवति, आचार्यः प्रतिबोधक-प्रव्राजकादि: अनुयोगाचार्यो वा, इति: एवंप्रकारार्थो वाशब्दो विकल्पार्थः, प्रयोगश्चैवम्- मनुष्यभवे ममाचार्योऽस्तीति वा, उपाध्याय: सूत्रदाता, सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्यादिष्विति प्रवर्ती, उक्तं च
तवसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ । असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ ॥ [व्यव० ११९५९] त्ति । प्रवर्त्तिव्यापारितान् साधून संयमयोगेषु सीदत: स्थिरीकरोति इति स्थविरः, उक्तं चथिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसु । जो जत्थ सीयइ जई संतबलो तं थिरीकुणइ ॥ [व्यव० ११९६१] त्ति । गणोऽस्यास्तीति गणी गणाचार्य:, गणधरो जिनशिष्यविशेष: आर्यिकाप्रतिजागरको वा साधुविशेषः, उक्तं चपियधम्मो दढधम्मो संविग्गो उज्जुओ य तेयस्सी। संगहुवग्गहकुसलो सुत्तत्थविऊ गणाहिवई ॥ [निशीथभा० २४४९, बृहत्कल्प० २०५०]
गणस्यावच्छेदो विभागोंऽशोऽस्यास्तीति, यो हि गणांशं गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदकः, आह च
उहावणा-पहावण-खेत्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥ [व्यव० ११९६२] त्ति ।
इम त्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरे रूपान्तरभाक् सा एतद्रूपा, दिव्या स्वर्गसम्भवा प्रधाना वा, देवानां सुराणामृद्धिः श्रीविमानरत्नादिसम्पद् देवर्द्धिः, एवं सर्वत्र, नवरं द्युतिः दीप्तिः शरीराभरणादिसम्भवा युतिर्वा युक्तिरिष्टपरिवारादिसंयोगलक्षणा अनुभाग: अचिन्त्या वैक्रियकरणादिका शक्तिः, लब्ध: उपार्जितो जन्मान्तरे, प्राप्त: इदानीमुपनतः, अभिसमन्वागतो भोग्यतां गतः, तदिति