________________
१८५
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । हव्वमागच्छित्तते, संचातेति हव्वमागच्छित्तते ।।
[टी०] अधुनोपपन्नो देवः, क्वेत्याह-देवलोकेष्विति, इह च बहुवचनमेकस्यैकदा अनेकेषूत्पादासम्भवादेकार्थे दृश्यं वचनव्यत्ययाद् देवलोकानेकत्वोपदर्शनार्थं वा, अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, इच्छेद् अभिलषेत्, पूर्वसङ्गतिकदर्शनाद्यर्थं मानुषाणामयं मानुषस्तम्, हव्वं शीघ्रम्, न संचाएइ त्ति न शक्नोति, दिवि देवलोके भवा दिव्यास्तेषु, कामौ च शब्द-रूपलक्षणौ भोगाश्च गन्ध-रस-स्पर्शाः कामभोगास्तेषु, अथवा काम्यन्त इति कामा: मनोज्ञास्ते च ते भुज्यन्त इति भोगा: शब्दादयस्ते च ते कामभोगास्तेषु मूर्च्छित इव मूर्च्छितो मूढः, तत्स्वरूपस्याऽनित्यत्वादेर्विबोधाक्षमत्वात्, गृद्धः तदाकाङ्क्षावान्, अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभि: सन्दर्भित इत्यर्थः, अध्युपपन्नः आधिक्येनाऽऽसक्तोऽत्यन्ततन्मना इत्यर्थः, नो आद्रियते न तेष्वादरवान् भवति, नो परिजानाति एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थं बध्नाति एतैरिदं प्रयोजनमिति न निश्चयं करोति, तथा तेषु नो निदानं प्रकरोति एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम् अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तु स्थिरा भवन्त्वित्येवंरूपं स्थित्या वा मर्यादया विशिष्टः प्रकल्प: आचार आसेवेत्यर्थस्तं प्रकरोति कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येकं कारणम् १ । तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्च्छितादिविशेषणो भवति ततस्तस्य मानुष्यकं मनुष्यविषयं प्रेम स्नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नम्, दिवि भवं दिव्यं स्वर्गगतवस्तुविषयं सङ्क्रान्तं तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसङ्क्रान्तिरिति द्वितीयम् २ । तथाऽसौ देवो यतो दिव्यकामभोगेषु मूर्च्छितादि-विशेषणो भवति ततस्तत्प्रतिबन्धात् तस्स णं ति तस्य देवस्य एवं ति एवंप्रकारं चित्तं भवति, यथा इयहिं ति इत इदानीं गच्छामि, मुहत्तं ति मुहूर्तेन गच्छामि, कृत्यसमाप्तावित्यर्थः, तेणं कालेणं ति येन तत् कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तो भवति तेन कालेन गतेनेति शेष:, तस्मिन् वा काले गते, णंशब्दो वाक्यालङ्कारार्थः, अल्पायुष: स्वभावादेव मनुष्या मात्रादयो यद्दर्शनार्थ