________________
प्रथममध्ययनम् एकस्थानकम् । अथवा आयुष्मन्नित्यनेन ग्रहण-धारणादिगुणवते शिष्याय शास्त्रार्थो देय इति ज्ञापनार्थं सकलगुणाधारभूतत्वेनाऽशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तम्
वुढे वि दोणमेहे न कण्हभूमाउ लोट्टए उदयं ।
गहण-धरणासमत्थे इय देयमच्छित्तिकारिम्मि ॥ [विशेषाव० १४५८] विपर्यये तु दोष इति, आह च
आयरिए सुत्तम्मि य परिवाओ सुत्तअत्थपलिमंथो । अन्नेसिं पि य हाणी पुट्ठा वि न दुद्धदा वंझा ॥ [विशेषाव० १४५७] इति ।
तथा तेनेत्यनेन त्वाप्तत्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तृगुणापेक्षत्वाद्वचनप्रामाण्यस्येति । भगवतेत्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेयः, तद्वचनमपि तथेति इत्यादि [वृत्तौ इति] । [सू० २] एगे आया । [टी०] यदाख्यातं भगवता तदधुनोच्यते । तत्र सकलपदार्थानां सम्यग्मिथ्याज्ञानश्रद्धानाऽनुष्ठानैर्विषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्यमतस्तद्विचारं तावदादावाह– एगे आया। एको न व्यादिरूप आत्मा जीवः, कथञ्चिदिति गम्यते, तत्र अतति सततमवगच्छति, अत सातत्यगमने [पा० धा० ३८] इति वचनाद् ‘अत'धातोर्गत्यर्थत्वाद् गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा जीवः, उपयोगलक्षणत्वादस्य सिद्ध-संसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात्, सततावबोधाभावे चाजीवत्वप्रसङ्गात्, अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे चाकाशादीनामपि तथात्वप्रसङ्गात्, एवं च जीवानादित्वाभ्युपगमाभावप्रसङ्ग इति। __ अथवा अतति सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा। नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपि स्वपर्यायेषु सततगमनाद्, अन्यथा
अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवम्, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद् जीव एव आत्मा, नाकाशादिरिति ।।
तदेवमुपयोगरूपैकलक्षणत्वात् सर्वे एवात्मान एकरूपाः, एवं चैकलक्षणत्वादेक आत्मेति ।] अथवा जन्म-मरण-सुख-दुःखादिसंवेदनेष्व-सहायत्वादेक आत्मेति