________________
[टी०] 'सुर्य'त्ति इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाञ्चकार- श्रुतम् आकर्णितं मे मया, आउसं ति आयुः जीवितम्, तत् संयमप्रधानतया प्रशस्तं प्रभूतं वा विद्यते यस्यासावायुष्मांस्तस्यामन्त्रणं हे आयुष्मन् ! शिष्य ! तेणं ति यः सन्निहित-व्यवहित-सूक्ष्म-बादर-बाह्या-ऽऽध्यात्मिकसकलपदार्थेष्वव्याहतवचनतयाऽऽप्तत्वेन जगति प्रतीतः अथवा पूर्वभवोपात्ततीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादिकालालीनमिथ्यादर्शनादिवासनः परिहतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गो भास्कर इव घनघातिकर्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पदपटलजुष्टपदपद्मो मध्यमाभिधानपुरीप्रथमप्रवर्त्तितप्रवचनो जिनो महावीरस्तेन भगवता अष्टमहाप्रातिहार्यरूपसमग्रैश्वर्यादियुक्तेन एवमित्यमुना वक्ष्यमाणेनैकत्वादिना प्रकारेण आख्यातमिति, आ मर्यादया जीवाऽजीवलक्षणासङ्कीर्णतारूपया अभिविधिना वा समस्तवस्तुविस्तारख्यापनलक्षणेन ख्यातं कथितम् आख्यातमात्मादिवस्तुजातमिति गम्यते, अत्र च श्रुतमित्यने नावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात्, उक्तं चकिं एत्तो पावयरं ? सम्मं अणहिगयधम्मसम्भावो । अन्नं कुदेसणाए कट्ठयरागम्मि पाडेइ ॥ [ ] त्ति ।
मयेत्यनेनोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मा-ऽनन्तर-परम्परभेदभिन्नागमेनायं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम इत्याह, आयुष्मन्नित्यनेन तु कोमलवचोभिः शिष्यमनः प्रह्लादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तं च
धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं । पल्हायंतो य मणं सीसं चोएइ आयरिओ ॥ [उपदेशमाला १०४] त्ति ।
आयुष्मत्त्वाभिधानं चात्यन्तमाह्लादकम्, प्राणिनामायुषोऽत्यन्ताभीष्टत्वाद्, यत उच्यतेसव्वे पाणा पियाउया अप्पियवहा सुहासाया दुक्खपडिकूला सव्वे जीविउकामा सव्वेसिं जीवियं पियं [आचाराङ्ग० सू०७८ ] ति, तथातृणायापि न मन्यन्ते पुत्र-दारा-ऽर्थसम्पदः । जीवितार्थे नरास्तेन तेषामायुरतिप्रियम् ॥ [ ] इति ।