________________
१८२
तिविधे मणे पन्नत्ते, तंजहा-तम्मणे, तदन्नमणे, णोअमणे ३॥ तिविहे अमणे पन्नत्ते, तंजहा-णोतम्मणे, णोतदन्नमणे, अमणे ४।
[टी०] इयमनन्तरं विशिष्टा साधुकायचेष्टा त्रिस्थानकेऽवतारिता, अधुना तु वचनमनसी तत्पर्युदासौ च तत्रावतारयन्नाह- तिविहे इत्यादि सूत्रचतुष्टयम्, अस्य गमनिकातस्य विवक्षितार्थस्य घटादेर्वचनं भणनं तद्वचनम्, घटार्थापेक्षया घटवचनवत्, तस्माद् विवक्षितघटादेरन्य: पटादिस्तस्य वचनं तदन्यवचनम्, घटापेक्षया पटवचनवत्, नोअवचनम्, अभणननिवृत्तिर्वचनमात्रं डित्थादिवदिति, अथवा स: शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थः, ज्वलन-तपनादिवत्, तथा तस्मात् शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टादन्य: शब्दप्रवृत्तिनिमित्तधर्मविशिष्टोऽर्थ उच्यते अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत्, उभयव्यतिरिक्तं नोअवचनम्, निरर्थकमित्यर्थः, डित्थादिवत् । अथवा तस्य आचार्यादेर्वचनं तद्वचनम्, तद्व्यतिरिक्तवचनं तदन्यवचनम् अविवक्षितप्रणेतृविशेषम्, नोअवचनं वचनमात्रमित्यर्थः । त्रिविधवचन-प्रतिषेधस्त्ववचनम्, तथाहि-नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचनवत्, अवचनं वचननिवृत्तिमात्रमिति, एवं व्याख्यान्तरापेक्षयाऽपि ज्ञेयम् । तस्य देवदत्तादेस्तस्मिन् वा घटादौ मनस्तन्मनः, ततो देवदत्ताद् अन्यस्य यज्ञदत्तादेर्घटापेक्षया पटादौ वा मनस्तदन्यमन:, अविवक्षितसम्बन्धिविशेषं तु मनोमानं नोअमन इति, एतदनुसारेणाऽमनोऽप्यूह्यमिति ।
[सू० १८२] तिहिं ठाणेहिं अप्पवुट्ठीकाए सिता, तंजहा-तंसिं च णं देसंसि वा पदेसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमति चयंति उववजंति १, देवा णागा जक्खा भूता णो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति २, अब्भवद्दलगं च णं समुट्टितं परिणतं वासितुकामं वाउकाए विधुणति ३, इच्चेतेहिं तिहिं ठाणेहिं अप्पवुट्ठिगाते सिता १॥
तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा-तंसिं च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति