________________
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः ।।
१८१ अत्रोच्यते, उक्तगुणानां मध्यात् अन्यतरगुणाभावेऽपि कारणविशेषात् सम्भवत्येवासौ, कथमन्यथाऽभिधीयते
जे यावि मंदि त्ति गुरुं विइत्ता, डहरे इमे अप्पसुए त्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा, करेंति आसायण ते गुरूणं ॥ [दशवै० ९।१।२] ति ।
अतः केषाञ्चित् गुणानामभावेऽप्यनुज्ञा, समग्रगुणभावे तु समनुज्ञेति स्थितम् । अथवा स्वस्य मनोज्ञाः समानसामाचारीकतया अभिरुचिता: स्वमनोज्ञाः, सह वा मनोज्ञैर्ज्ञानादिभिरिति समनोज्ञा: एकसाम्भोगिका: साधवः, कथं त्रिविधा इत्याहआचार्यतयेत्यादि, भिक्षु-क्षुल्लकेत्यादिभेदा: सन्तोऽपि न विवक्षिताः, त्रिस्थानकाधिकारादिति । एवं उवसंपय त्ति, एवमित्याचार्यत्वादिभिस्त्रिधा समनुज्ञावत् उपसंपत्तिरुपसंपत् ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमः, तथाहि-कश्चित् स्वाचार्यादिसन्दिष्टः सम्यक्श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहण-स्थिरीकरणविस्मृतसन्धानार्थं तथा चारित्रविशेषभूताय वैयावृत्याय क्षमणाय वा सन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च
उवसंपया य तिविहा णाणे तह दंसणे चरित्ते य । दसण-णाणे तिविहा दुविहा य चरित्तअट्ठाए ॥ [आव० नि० ६९८, पञ्चा० ५८६] त्ति।
सेयमाचार्योपसम्पद्, एवमुपाध्याय-गणिनोरपीति । एवं विजहण त्ति एवमित्याचार्यत्वादिभेदेन त्रिधैव विहानं परित्याग: तच्च आचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्यक्षपणार्थमाचार्यान्तरोपसम्पत्त्या भवतीति, आह च- नियगच्छादन्नम्मि उ सीयणदोसाइणा होइ [आव०नि० ७१८] त्ति । अथवा आचार्यो ज्ञानाद्यर्थमुपसम्पन्नं यतिं तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनं वा परित्यजति यत् साऽऽचार्यविहानि:, उक्तं चउवसंपन्नो जं कारणं तु तं कारणं अपूरितो । अहवा समाणियम्मी सारणया वा विसग्गो वा ॥ [आव०नि० ७२०] इति । एवमुपाध्याय-गणिनोरपीति । [सू० १८१] तिविधे वयणे पन्नत्ते, तंजहा-तव्वयणे, तदन्नवयणे, णोअवयणे। तिविहे अवयणे पन्नते, तंजहा-णोतव्वयणे, णोतदन्नवयणे, अवयणे २।