________________
१८०
एगं व दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं । आउटुंते वि तओ परेण तिण्हं विसंभोगो ॥ [निशीथभा० २०७५] इति । इह चाद्यं स्थानद्वयं गुरुतरदोषाश्रयम्, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयम्, तत्र हि चतुर्थवेलायां स विधीयत इति ।
अणुन त्ति, अनुज्ञानमनुज्ञा अधिकारदानम् । आचर्यते मर्यादावृत्तितया सेव्यत इत्याचार्य:, आचारे वा पञ्चप्रकारे साधुरित्याचार्य:, आह च
पंचविहं आयारं आयरमाणा तहा पयासंता ।
आयारं दंसेंता आयरिया तेण वुच्चंति ॥ [आव०नि० ९९८] तद्भावस्तत्ता, तया, उत्तरत्र गणाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः । तथा उपेत्याधीयतेऽस्मादित्युपाध्याय:, आह चसम्मत्तनाणदंसणजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजोगो सुत्तं वाएउवज्झाओ ॥ [ ] त्ति । तद्भाव उपाध्यायता, तया, तथा गण: साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौ गणी गणाचार्यः,तद्भावस्तत्ता, तया, गणनायकतयेति भावः । तथा समिति सङ्गता औत्सर्गिकगुणयुक्तत्वेनो चिता आचार्यादितया अनुज्ञा समनुज्ञा, तथाहिअनुयोगाचार्यस्यौत्सर्गिकगुणा:तम्हा वयसंपन्ना कालोचियगहियसयलसुत्तत्था । अणुजोगाणुण्णाए जोगा भणिया जिणिंदेहिं ॥ इहरा उ मुसावाओ पवयणखिंसा य होइ लोयम्मि । सेसाण वि गुणहाणी तित्थुच्छेओ य भावेणं ॥ [पञ्चव० ९३२-३३] ति, गणाचार्योऽप्यौत्सर्गिक एवम्सुत्तत्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपन्नो गंभीरो लद्धिमंतो य ॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी य । एवंविहो उ भणिओ गणसामी जिणवरिंदेहिं ॥ [पञ्चव० १३१५-१६] ति । अथैवंविधगुणाभावे अनुज्ञाया अप्यभावात् कथमन्या समनुज्ञा भविष्यतीति ?,