________________
१८३
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । चयंति उववजंति १, देवा नागा भूता जक्खा सम्ममाराहिता भवंति, अन्नत्थ समुट्ठितं उदगपोग्गलं परिणतं वासिउकामं तं देसं साहरंति २, अब्भवद्दलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउआते विधुणति ३, इच्चेतेहिं तिहिं ठाणेहिं महावुट्टिकाए सिया २।
[टी०] अनन्तरं संयतमनुष्यादिव्यापारा उक्ता:, इदानीं तु प्रायो देवव्यापारान् तिहीत्यादिभिरष्टाभि: सूत्रैराह, सुगमानि चैतानि, किन्तु अप्पवुट्टिकाए त्ति, अल्प: स्तोक: अविद्यमानो वा, वर्षणं वृष्टिः अध: पतनम्, वृष्टिप्रधान: कायो जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्या: कायो राशिर्वृष्टिकाय:, अल्पश्चासौ वृष्टिकायश्च अल्पवृष्टिकाय:, स स्याद् भवेत् । तस्मिंस्तत्र मगधादौ, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, णमित्यलङ्कारे, देशे जनपदे, प्रदेशे तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थो । उदकस्य योनय: परिणामिकारणभूता उदकयोनयः, त एवोदकयोनिका उदकजननस्वभावा व्युत्क्रामन्ति उत्पद्यन्ते व्यपक्रामन्ति च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टे - च्यवन्ते उत्पद्यन्ते क्षेत्रस्वभावादित्येकम्, तथा देवा वैमानिक-ज्योतिष्का:, नागा नागकुमारा भवनपत्युपलक्षणमेतत्, यक्षा भूता इति व्यन्तरोपलक्षणम्, अथवा देवा इति सामान्यम्, नागादयस्तु विशेषः, एतद्ग्रहणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नो सम्यगाराधिता भवन्ति अविनयकरणाजनपदैरिति गम्यते, ततश्च तत्र मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम् उत्पन्नम् उदकप्रधानं पौद्गलं पुद्गलसमूहो मेघ इत्यर्थः उदकपौद्गलम्, तथा परिणतम् उदकदायकावस्थाप्राप्तम्, अत एव विद्युदादिकरणाद्वर्षितुकामं सदन्यं देशमङ्गादिकं संहरन्ति नयन्तीति द्वितीयम्। अभ्राणि मेघास्तैर्वईलकं दुर्दिनम् अभ्रवईलकं वाउयाए त्ति वायुकाय: प्रचण्डवातो विधुनाति विध्वंसयतीति तृतीयम् । इच्चे इत्यादि निगमनमिति । एतद्विपर्यासादनन्तरसूत्रम् । _ [सू० १८३] तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणुसं लोगं हव्वमागच्छित्तए, णो चेव णो संचातेति हव्वमागच्छित्तए । अहुणोववन्ने