________________
१७७
तृतीयमध्ययनं त्रिस्थानकम् । तृतीय उद्देशकः । गुरुनिवेदनम्, प्रतिक्रमणं मिथ्यादुष्कृतदानम्, निन्दा आत्मसाक्षिका, गर्हा गुरुसाक्षिका, वित्रोटनं तदध्यवसायविच्छेदनम्, विशोधनम् आत्मनः चारित्रस्य वा अतीचारमलक्षालनम्, अकरणताभ्युत्थानं पुनर्नैतत् करिष्यामीत्यभ्युपगमः, अहारिहं यथोचितं पायच्छित्तं ति पापच्छेदकं प्रायश्चित्तविशोधकं वा तपःकर्म निर्विकृतिकादि प्रतिपद्येत, तद्यथा- अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामि स्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् १, तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि २, करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं प्रतिपद्य इति ३। कीर्त्तिः एकदिग्गामिनी प्रसिद्धिः, सर्वदिग्गामिनी सैव वर्णो यशःपर्यायत्वादस्य, अथवा दानपुण्यफला कीर्तिः, पराक्रमकृतं यशः [ ], तच्च वर्ण इति, तयोः प्रतिषेधोऽकीर्तिः अवर्णश्चेति, अविनयः साधुकृतो मे स्यादिति, इदं च सूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षम्, मायं कट्ट त्ति मायां कृत्वा मायां पुरस्कृत्य, माययेत्यर्थः, परिहास्यति हीना भविष्यति, पूजा पुष्पादिभिः, सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरूपत्वादिति, इदं तु प्राप्तप्रसिद्धिपुरुषापेक्षम्, शेषं सुगमम् । ___ उक्तविपर्ययमाह-तिहीत्यादि सूत्रत्रयं स्फुटम्, किन्तु [मायी मायं कटु आलोएज्ज त्ति] इह मायी अकृत्यकरणकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाधन्यथानुपपत्तेरिति, अस्सिं ति अयम्, यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामायिन इहलोकाद्याः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनि स्वस्वभावं लभन्ते अतोऽहममायी भूत्वाऽऽलोचनादि करोमीति भावः। [सू० १७७] तओ पुरिसजाता पन्नत्ता, तंजहा-सुत्तधरे, अत्थधरे, तदुभयधरे।
[टी०] अनन्तरं शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाहतओ पुरीत्यादि सुबोधम्, नवरमेते यथोत्तरं प्रधाना इति ।
[सू० १७८] कप्पति णिग्गंथाण वा णिग्गंथीण वा ततो वत्थाई धारित्तए वा परिहरित्तए वा, तंजहा-जंगिते, भंगिते, खोमिते १। कप्पति णिग्गंथाण वा णिग्गंथीण वा ततो पायाइं धारित्तए वा परिहरित्तए