________________
१७८
वा, तंजहा-लाउयपादे वा, दारुपादे वा, मट्टियापादे वा २।।
[टी०] तेषामेव बाह्यां सम्पदं सूत्रद्वयेनाह- कप्पतीत्यादि, कल्पते युज्यते, युक्तमित्यर्थः, धारित्तए त्ति धर्तुं परिग्रहे परिहर्तुं परिभोक्तुमिति, जंगियं जङ्गमजमौर्णिकादि, भंगियं अतसीमयम्, खोमियं कार्पासिकमिति । अलाबूपात्रकं तुम्बकम्, दारुपात्रं काष्ठमयम्, मृत्तिकापात्रं मृन्मयं शराव-वाघटिकादि, शेषं सुगमम् ।
[सू० १७९] तिहिं ठाणेहिं वत्थं धरेज्जा, तंजहा-हिरिवत्तियं, दुगुंछावत्तियं, परीसहवत्तियं ।
[टी०] वस्त्रग्रहणकारणान्याह-तिहीत्यादि, ह्री: लज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा प्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत्तथा, एवं परीषहाः शीतोष्ण-दंश-मशकादयः प्रत्ययो यत्र तत्तथा ।
[सू० १८०] तओ आयरक्खा पन्नत्ता, तंजहा-धम्मियाते पडिचोयणाते पडिचोएत्ता भवति, तुसिणीतो वा सिता, उद्देत्ता वा आताते एकंतमंतमवक्कमेज्जा १।
णिग्गंथस्स णं गिलायमाणस्स कप्पंति ततो वियडदत्तीओ पडिग्गाहित्तते, तंजहा-उक्कोसा मज्झिमा जहन्ना २।
तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिक्कमति, तंजहा-सयं वा दटुं, सड्ढस्स वा निसम्म, तच्चं मोसं आउदृति चउत्थं नो आउदृति ३।
तिविधा अणुन्ना पन्नत्ता, तंजहा-आयरियत्ताते उवज्झायत्ताते गणित्ताते ४। तिविधा समणुन्ना पन्नत्ता, तंजहा-आयरियत्ताते उवज्झायत्ताते गणित्ताते ५। एवं उपसंपदा ६, एवं विजहणा ७।
[टी०] निर्ग्रन्थप्रस्तावान्निम्रन्थानेवानुष्ठानतः सप्तसूत्र्याऽऽह– सुगमा, नवरम् आत्मानं रागद्वेषादेरकृत्याद् भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः । धम्मियाए पडिचोयणाए त्ति धार्मिकेणोपदेशेन 'नेदं भवादृशां विधातुमुचितम्' इत्यादिना प्रेरयिता उपदेष्टा भवति अनुकूलेतरोपसर्गकारिणः, ततोऽसावुपसर्गकरणानिवर्त्तते, ततोऽकृत्यसेवा न भवतीत्यतः