________________
१७५
तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । अकृते सति कर्मणि दुःखभावात् अकृत्यम् अकरणीयमबन्धनीयम् अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किम् ? दुक्खं दुःखहेतुत्वात् कर्म, अफुसं ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणं च वर्तमानकाले बध्यमानं कृतं चातीतकाले बद्धं क्रियमाणकृतं द्वन्द्वैकत्वं कर्मधारयो वा, न क्रियमाणकृतमक्रियमाणकृतम्, किं तत् ? दुःखं कर्म । अकिच्चं दुक्खमित्यादिपदत्रयं तत्थ जा सा अकडा कज्जइ तं पुच्छंतीत्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः, किमुक्तं भवतीत्याह-अकृत्वा अकृत्वा कर्म प्राणा द्वीन्द्रियादयः भूताः तरवो जीवाः पञ्चेन्द्रियाः सत्त्वाः पृथिव्यादयः, यथोक्तम्प्राणा द्वित्रिचतुः प्रोक्ता भूतास्तु तरवः स्मृताः । जीवा: पञ्चेन्द्रिया ज्ञेयाः शेषाः सत्त्वाः प्रकीर्तिताः ॥ [ ] इति ।
वेदनां पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति यदुत एवं वक्तव्यं स्यादिति प्रक्रमः ।
एवमन्यतीर्थिकमतमुपदर्य निराकुर्वन्नाह– जेते इत्यादि, य एते अन्यतीर्थिका एवम् उक्तप्रकारमाहंसु त्ति उक्तवन्तः मिथ्या असम्यक् ते अन्यतीर्थिका एवमुक्तवन्तः, अकृतायाः क्रियायाः क्रियात्वानुपपत्तेः, क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं क्रियते, अकृतकर्मानुभवने हि बद्धमुक्तसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति । स्वमतमाविष्कुर्वन्नाह- अहमित्यादि, अहं ति अहमेव नान्यतीर्थिकाः, पुनःशब्दो विशेषणार्थः, स च पूर्ववाक्यादुत्तरवाक्यार्थस्य विलक्षणतामाह, एवमाइक्खामीत्यादि पूर्ववत्, कृत्यं करणीयमनागतकाले, दुःखं तद्धेतुत्वात् कर्म, स्पृश्यं स्पृष्टलक्षणबन्धावस्थायोग्यम्, क्रियमाणं वर्तमाने काले, कृतमतीते, अकरणं नास्ति कर्मणः कथञ्चनापीति भावः, स्वमतसर्वस्वमाह-कृत्वा कृत्वा कर्मेति गम्यते, प्राणादयो वेदनां कर्मकृतशुभाशुभानुभूतिं वेदयन्ति अनुभवन्तीति वक्तव्यं स्यात् सम्यग्वादिनामिति।
॥ त्रिस्थानकस्य द्वितीय उद्देशको समाप्तः ॥