________________
१७४
[टी०] जीवेन कृतं दुःखमित्युक्तम्, अधुना परमतं निरस्यैतदेव समर्थयन्नाहअन्नउत्थीत्यादि प्रायः स्पष्टम्, किन्तु अन्ययूथिकाः इह तापसा विभङ्गज्ञानवन्तः, एवं वक्ष्यमाणप्रकारमाख्यान्ति सामान्यतो भाषन्ते विशेषतः, क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेन उक्तमिति, किं तदित्याह कथं केन प्रकारेण श्रमणानां निर्ग्रन्थानां ‘मते' इति शेषः, क्रियत इति क्रिया कर्म, सा क्रियते भवति दुःखायेति विवक्षेति प्रश्नः, इह तु चत्वारो भङ्गाः, तद्यथा-कृता क्रियते विहितं सत् कर्म दुःखाय भवतीत्यर्थः १, एवं कृता न क्रियते २, अकृता क्रियते ३, अकृता न क्रियते ४ इति, एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टस्तं शेषभङ्गनिराकरणपूर्वकमभिधातुमाह-तत्थ त्ति तेषु चतुर्यु भङ्गकेषु मध्ये प्रथम द्वितीयं चतुर्थं च न पृच्छन्ति, एतत्त्रयस्यात्यन्तं रुचेरविषयतया तत्प्रश्नस्याप्यप्रवृत्तेरिति, तथाहि- याऽसौ कृता क्रियते यत्तत् कर्म कृतं सद्भवति नो तां ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निर्ग्रन्थमतत्वेन चासंमतत्वादिति, तत्र याऽसौ कृता नो क्रियते इति तेषु भङ्गकेषु मध्ये यत्तत् कर्म कृतं न भवति नो तां पृच्छन्ति, अत्यन्तविरोधेनासम्भवात्, तथाहि- कृतं चेत् कर्म कथं न भवतीत्युच्यते ?, न भवति चेत् कथं कृतं तदिति, कृतस्य कर्मणोऽभवनाभावात्, तत्र तेषु याऽसावकृता यत्तदकृतं कर्म नो क्रियते न भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्मणः खरविषाणकल्पत्वादिति, अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकेऽवतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्संमत इति तं पृच्छन्ति, अत एवाह- तत्र याऽसावकृता क्रियते यत्तदकृतं पूर्वमविहितं कर्म भवति दुःखाय सम्पद्यते तां पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, पृच्छतां चायमभिप्रायः- यदि निर्ग्रन्था अपि अकृतमेव कर्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्टु शोभनं अस्मत्समानबोधत्वादिति शेषानपृच्छन्तः तृतीयमेव पृच्छन्तीति भावः । से त्ति अथ तेषामकृतकाभ्युपगमवतामेवं वक्ष्यमाणप्रकारं वक्तव्यम् उल्लापः स्यात्, त एव वा एवमाख्यान्ति परान् प्रति यदुत-अथैवं वक्तव्यं प्ररूपणीयं तत्त्ववादिनां स्यात् भवेद्,