________________
१७१
तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । तथा दर्शन-ज्ञान-जीवा-ऽजीवाभिगमा गुणप्रत्यया अवध्यादिप्रत्यक्षरूपा दिक्त्रये न सन्त्येव, भवप्रत्ययावधिपक्षे तु नारक-ज्योतिष्कास्तिर्यगवधयो भवनपति-व्यन्तरा ऊर्ध्वावधयः वैमानिका अधोऽवधय एकेन्द्रिय-विकलेन्द्रियाणां त्ववधिर्नास्त्येवेति ।
[सू० १७२] तिविधा तसा पनत्ता, तंजहा-तेउकाइया, वाउकाइया, उराला तसा पाणा ।
तिविधा थावरा पन्नत्ता, तंजहा-पुढविकाइया, आउकाइया, वणस्सतिकाइया ।
[टी०] यथोक्तानि च गत्यादिपदानि त्रसानामेव सम्भवन्तीति सम्बन्धात् त्रसान्निरूपयन्नाह- तिविहेत्यादि स्पष्टम्, किन्तु त्रस्यन्तीति साः चलनधाणः । तत्र तेजो-वायवो गतियोगात् साः । उदाराः स्थूलाः, वसा इति त्रसनामकर्मोदयवर्त्तित्वात्, प्राणा इति व्यक्तोच्छ्वासादिप्राणयोगात् द्वीन्द्रियादयस्तेऽपि गतियोगादेव वसा इति । उक्तास्त्रसाः, तद्विपर्ययमाह तिविहेत्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावराः, शेषं व्यक्तमेवेति ।
[सू० १७३] ततो अच्छेज्जा पन्नत्ता, तंजहा-समये, पदेसे, परमाणू १। एवमभेजा २, अडज्झा ३, अगिज्झा ४, अणद्धा ५, अमज्झा ६, अपएसा ७। ततो अविभातिमा पन्नत्ता, तंजहा-समते, पएसे, परमाणू ८।
[टी०] इह च पृथिव्यादयः प्रायोऽङ्गुलासङ्ख्येयभागमात्रावगाहनत्वात् अच्छेद्यादिस्वभावा व्यवहारतो भवन्तीति तत्प्रस्तावान्निश्चयाच्छेद्यादीनष्टभिः सूत्रैराहतओ अच्छेज्जेत्यादि, छेत्तुमशक्या बुद्ध्या क्षुरिकादिशस्त्रेण वेत्यच्छेद्याः, छेद्यत्वे समयादित्वायोगादिति, समयः कालविशेषः, प्रदेशो धर्मा-ऽधर्मा-ऽऽकाश-जीवपुद्गलानां निरवयवोंऽशः, परमाणुः अस्कन्धः पुद्गल इति, उक्तं च
सत्थेण सुतिक्खेण वि छेत्तुं भेत्तुं च जं किर न सक्का । तं परमाणु सिद्धा वयंति आई पमाणाणं ॥ [जम्बूद्वीपप्र० २।२८] ति । एवमिति पूर्वसूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना, अदाह्या