________________
१७०
तस्सेवऽणुगंतव्वा अग्गेयाई दिसा नियमा ॥ [ ] भावदिक् चाष्टादशविधापुढवि १ जल २ जलण ३ वाया ४ मूला ५ खंध ६ ऽग्ग ७ पोरबीया य ८ । बि ९ ति १० चउ ११ पंचिंदियतिरिय १२ नारगा १३ देवसंघाया १४ ॥ संमुच्छिम १५ कम्मा १६ ऽकम्मभूमगनरा १७ तहतरद्दीवा १८ । भावदिसा दिस्सइ जं संसारी निययमेयाहिं ॥ [विशेषाव० २७०३-४] इति ।
इह च क्षेत्र-ताप-प्रज्ञापकदिग्भिरेवाधिकारः, तत्र च तिर्यग्ग्रहणेन पूर्वाद्याश्चतस्र एव दिशो गृह्यन्ते, विदिक्षु जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात्, शेषेषु पदेषु च विदिशामविवक्षितत्वात्, यतोऽत्रैव वक्ष्यति- छहिं दिसाहिं जीवाणं गई पवत्तई [सू०४९९] त्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तम्निव्वाघाएणं नियमा छद्दिसिं [प्रज्ञापना० २८।१८०९] ति, तत्र तिहिं दिसाहिं ति सप्तमी तृतीया पञ्चमी वा यथायोगं व्याख्येयेति, गतिः प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्, एवमिति पूर्वोक्ताभिलापसूचनार्थः, आगतिः प्रज्ञापकप्रत्यासन्नस्थाने आगमनमिति, व्युत्क्रान्ति: उत्पत्तिः, आहारः प्रतीतः, वृद्धिः शरीरस्य वर्द्धनम्, निवृद्धिः शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्घातो वेदनादिलक्षणः, कालसंयोगो वर्त्तनादिकाललक्षणानुभूतिः मरणयोगो वा, दर्शनेन अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानाम अवध्यादिनैवाभिगमो जीवाभिगम इति । तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तं०-उड्डाए ३ एवं पंचिंदियतिरिक्खजोणियाणं एवं मणुस्साण वि, एवं सर्वत्राभिलपनीयमिति दर्शनार्थं परिपूर्णान्त्यसूत्राभिधानमिति। एतान्यपि जीवाभिगमान्तानि सामान्यजीवसूत्राणि चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीनां त्रयोदशानामपि पदानां सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यग्मनुष्येषु च तत्सम्भवात् तदतिदेशमाह- एवमित्यादि, यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदश पदानि दिक्त्रये अभिहितान्येवं पञ्चेन्द्रियतिर्यङ्-मनुष्येष्विति भावः, एवं चैतानि षड्विंशतिः सूत्राणि भवन्तीति । अथैषां नारकादिषु कथमसम्भव इति ?, उच्यते, नारकादीनां द्वाविंशतेर्जीवविशेषाणां नारक-देवेषूत्पादाभावादूर्वाधोदिशोर्विवक्षया गत्यागत्योरभावः,