________________
तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः ।
[टी०] सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह- तिविहेत्यादि कण्ठ्यम्, किन्तु लोकस्थितिः लोकव्यवस्था, आकाशं व्योम, तत्र प्रतिष्ठितो व्यवस्थित आकाशप्रतिष्ठितो वातो घनवात-तनुवातलक्षणः सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात्, उदधिः घनोदधिः, पृथिवी तमस्तमःप्रभादिकेति ।
उक्तस्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वकं तासु गत्यादि निरूपयन् तओ दिसेत्यादि सूत्राणि चतुर्द्दश सुगमानि, नवरं दिश्यते व्यपदिश्यते पूर्वादितया वस्त्वनयेति दिक्, सा च नामादिभेदेन सप्तधा, आह चनामं १ ठवणा २ दविए ३ खेत्तदिसा ४ तावखेत्त ५ पन्नवए ६ ॥
सत्तमिया भावदिसा ७ सा होअट्ठारसविहा उ ।। [ आव०नि० ८०९ ]
तत्र द्रव्यस्य पुद्गलस्कन्धादेर्दिक द्रव्यदिक्, क्षेत्रस्य आकाशस्य दिक् क्षेत्रदिक्, सा चैवम्
अट्ठपएसो रुयगो तिरियंलोयस्स मज्झयारम्मि ।
एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ [आचाराङ्गनि० ४२]
तत्र पूर्व्वाद्या महादिशश्चतस्रोऽपि द्विप्रदेशादिका द्व्युत्तराः, अनुदिशस्तु एकप्रदेशा अनुत्तराः, ऊर्ध्वाधोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि
दुपएसादि दुरुत्तर एगपएसा अणुत्तरा चेव ।
चउरो ४ चउरो य दिसा चउरादि अणुत्तरा दुन्न २ ॥१॥ सगडुद्धिसंठियाओ महादिसाओ हवंति चत्तारि ।
मुक्तावली उचउरो दो चेव य हुंति रुयगनिभा ||२|| [आचाराङ्गनि० ४४,४६]
नामानि चासाम्
१६९
इंद १ ग्गेयी २ जम्मा य ३ नेरई ४ वारुणी य ५ वायव्वा ६ ।
सोमा ७ ईसाणा विय ८ विमला य ९ तमा १० य बोद्धव्वा ॥ [ आचाराङ्गनि० ४३] तापः सविता, तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा च अनियता, यत उक्तम्– जेसिं जत्तो सूरो उदे तेसिं तई हवइ पुव्वा । तावक्खेत्तदिसाओ पयाहिणं सेसियाओ सिं ॥ [ विशेषाव० २७०१] तथा प्रज्ञापकस्य आचार्यादेर्दिक् प्रज्ञापकदिक्, सा चैवम्पनवओ जयभिमुो सा पुव्वा सेसिया पयाहिणओ ।