________________
१७२
अग्निक्षारादिना, अग्राह्या हस्तादिना, न विद्यतेऽर्द्धं येषामित्यनर्द्धा विभागद्वयाभावात्, अमध्या विभागत्रयाभावात्, अत एवाह- अप्रदेशा निरवयवाः, अत एवाऽविभाज्या विभक्तुमशक्या, अथवा विभागेन निर्वृत्ता विभागिमास्तन्निषेधादविभागिमाः ।
[सू० १७४] अजो त्ति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी-किंभया पाणा समणाउसो !, गोयमादी समणा णिगंथा समणं भगवं महावीरं उवसंकमंति, उवसंकमित्ता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासी-णो खलु वयं देवाणुप्पिया ! एतमढें जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एतमढें णो गिलायंति परिकहित्तत्ते तमिच्छामो णं देवाणुप्पियाणं अंतिए एयमढे जाणित्तए । अज्जो त्ति समणे भगवं महावीरे गोतमाती समणे निग्गंथे आमंतेत्ता एवं वयासी-दुक्खभया पाणा समणाउसो !। से णं भंते ! दुक्खे केण कडे ? जीवेणं कडे पमादेण। से णं भंते ! दुक्खे कहं वेइजति ? अप्पमादेण ।
[टी०] ते च पूर्वतरसूत्रोक्ताः त्रस-स्थावराख्याः प्राणिनो दुःखभीरव इत्येतत् संविधानकद्वारेणाह अज्जो इत्यादि सुगमम्, केवलम् अज्जो त्ति त्ति आरात् पापकर्मभ्यो याता आर्यास्तदामन्त्रणं हे आर्याः ! इत्येवमभिलापेनाऽऽमन्त्र्येति सम्बन्धः, श्रमणो भगवान् महावीरः गौतमादीन् श्रमणान् निर्ग्रन्थानेवं वक्ष्यमाणन्यायेनाऽवादीदिति, कस्माद् भयं येषां ते किंभयाः, कुतो बिभ्यतीत्यर्थः, प्राणाः प्राणिनः समणाउसो त्ति हे श्रमणाः ! हे आयुष्मन्त इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतः प्रश्नः शिष्याणां व्युत्पादनार्थ एव, अनेन चाऽपृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते च
कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा वयंति आयरिया। सीसाणं तु हियट्ठा विउलतरागं तु पुच्छाए ॥ [दशवै०नि० ३८] त्ति ।
ततश्च उवसंकमंति त्ति उपसङ्क्रामन्ति उपगच्छन्ति, तस्य समीपवर्त्तिनो भवन्ति, इह च तत्कालापेक्षया वर्तमाननिर्देशो न दुष्टः, उपसङ्क्रम्य वन्दन्ते स्तुत्या, नमस्यन्ति