________________
१६७
तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । प्रपञ्चितत्वात् तत्रैवास्या इति । एवमेक्केत्यादि, एवमिति गत्वादिसूत्रोक्तक्रमेण एकैकस्मिन् शब्दादौ विषये विधि-प्रतिषेधाभ्यां प्रत्येकं त्रयस्त्रय आलापकाः सूत्राणि कालविशेषाश्रयाः सुमनाः दुर्मना नोसुमना नोदुर्मना इत्येतत्पदत्रयवन्तो भणितव्याः, एतदेव दर्शयन्नाह- सद्दमित्यादि भावितार्थम्, एवं रूवाई गंधाई - इत्यादि, यथा शब्दे विधि-निषेधाम्यां त्रयस्त्रय आलापका भणिता एवं ‘रूवाई पासित्ते'त्यादयः त्रयस्त्रय एव दर्शनीयाः, एवं च यद्भवति तदाह- एक्कक्केत्यादि, एकैकस्मिन् विषये षडालापका भणितव्या भवन्तीति, तत्र शब्दे दर्शिता एव, रूपादिषु पुनरेवम्- रूपाणि दृष्ट्वा सुमना दुर्मना अनुभयम् १, एवं पश्यामीति २, एवं द्रक्ष्यामीति ३, एवम् अदृष्ट्वा ४, न पश्यामीति ५, न द्रक्ष्यामीति ६ षट्, एवं गन्धान् घ्रात्वा ६ रसानास्वाद्य ६ स्पर्शान् स्पृष्ट्वेति ६ ।
[सू० १६९] ततो ठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिम्मेरस्स णिप्पच्चक्खाणपोसहोववासस्स गरहिता भवंति, तंजहा-अस्सिं लोगे गरहिते भवति, उववाते गरहिते भवति, आयाती गरहिता भवति ।
ततो ठाणा ससीलस्स सव्वयस्स सगुणस्स समेरस्स सपच्चक्खाणपोसहोववासस्स पसत्था भवंति, तजंहा-अस्सिं लोगे पसत्थे भवति, उववाते पसत्थे भवति, आयाती पसत्था भवति ।
[टी०] तहेव ठाणा य त्ति यत् सङ्ग्रहगाथायामुक्तं तद् भावयन्नाह- [तओ ठाणेत्यादि,] त्रीणि स्थानानि निःशीलस्य सामान्येन शुभस्वभाववर्जितस्य, विशेषतः पुनः निव्रतस्य प्राणातिपाताद्यनिवृत्तस्य, निर्गुणस्योत्तरगुणापेक्षया, निर्मर्यादस्य लोककुलाद्यपेक्षया, निष्प्रत्याख्यान-पौषधोपवासस्य पौरुष्यादिनियम-पर्वोपवासरहितस्य, गर्हितानि जुगुप्सितानि भवन्ति, तद्यथा-अस्सिं ति विभक्तिपरिणामादयं लोकः इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात्, तथा उपपातः अकामनिर्जरादिजनितः किल्बिषिकादिदेवभवो नारकभवो वा, उपपातो देव-नारकाणाम् [तत्त्वार्थ० २/३५] इति वचनात्, स गर्हितो भवति किल्बिषिका-ऽऽभियोग्यादिरूपतयेति, आजाति: तस्माच्च्युतस्योवृत्तस्य वा कु मानुषत्व-तिर्यक्त्वरूपा गर्हिता,