________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
[सू० १५८] तओ लोगे णिस्सीला णिव्वता निग्गुणा निम्मेरा णिप्पच्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमा पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववज्जंति, तंजहा - रायाणो, मंडलिया, जे य महारंभा कोडुंबी ।
१५७
तओ लोए ससीला सव्वता सगुणा समेरा सपच्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तंजहा - रायाणो परिचत्तकामभोगा, सेणावती, पसत्थारो ।
[टी०] क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्ते तानाह - तओ इत्यादि, निःशीला निर्गतशुभस्वभावाः, दुःशीला इत्यर्थः, एतदेव प्रपञ्च्यते - निर्व्रताः अविरताः प्राणातिपातादिभ्यः, निर्गुणा उत्तरगुणाभावात्, निम्मेर त्ति निर्मर्यादाः प्रतिपन्नापरिपालनादिना, तथा प्रत्याख्यानं च नमस्कारसहितादि, पौषधः पर्वदिनमष्टम्यादि तत्रोपवासः अभक्तार्थकरणं स च, तौ निर्गतौ येषां ते निष्प्रत्याख्यानपौषधोपवासाः कालमासे मरणमासे कालं मरणमिति । णेरइयत्ताए त्ति पृथिव्यादित्वव्यवच्छेदार्थम्, तत्र ह्येकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानः चक्रवर्त्ति - वासुदेवाः, माण्डलिकाः शेषा राजानः, ये च महारम्भाः पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्म्मकारिणः कुटुम्बिन इति, शेषं कण्ठ्यम् ।
अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्ते तानाह - तओ इत्यादि सुगमम्, केवलं राजानः प्रतीताः परित्यक्तकामभोगाः सर्व्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीयम्, सेनापतयः सैन्यनायकाः, प्रशास्तारो लेखाचार्यादयः, धर्मशास्त्रपाठकाः इति क्वचित् ।
[सू० १५९] बंभलोग लंतएसु णं कप्पेसु विमाणा तिवण्णा पन्नत्ता, तंजहा - किण्हा, नीला, लोहिता ।
आणय-पाणया-ऽऽरण - ऽच्चुतेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं तिण्णि रयणीओ उड्डउच्चत्तेणं पण्णत्ता ।