________________
१५६
__ [टी०] नरकपृथिवीनां क्षेत्रस्वभावानां प्राक् स्वरूपमुक्तम्, अथ क्षेत्राधिकारात् क्षेत्रविशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह-तओ इत्यादि, त्रीणि लोके समानि तुल्यानि योजनलक्षप्रमाणत्वात्, न च प्रमाणत एवात्र समत्वमपि तु औत्तराधर्यव्यवस्थिततया समश्रेणितयाऽपीत्यत आह– सपक्खिमित्यादि, पक्षाणां दक्षिण-वामादिपार्थानां सदृशता समता सपक्षमित्यव्ययीभावः, तेन समपार्श्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां विदिशां सदृशता सप्रतिदिक् तेन, समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठान: सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीप: सकलद्वीपमध्यमः, सर्वार्थसिद्धं विमानं पञ्चानामनुत्तराणां मध्यममिति ।
सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे नरकेन्द्रकः पञ्चचत्वारिंशद्योजनलक्षाणि. समयः कालः तत्सत्तोपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद अल्पो योजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भात् प्राग्भारः पुद्गलनिचयो यस्याः सेषत्प्राग्भाराऽष्टमपृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महाप्राग्भाराः, अशीत्यादिसहस्राधिकयोजनलक्षबाहल्यत्वात्, तथाहिपढमाऽसीइसहस्सा बत्तीसा अट्ठवीस वीसा य । अट्ठार सोलस य अट्ट सहस्स लक्खोवरिं कुज्जा ॥ [बृहत्सं० २४१] इति । विष्कम्भस्तु तासां क्रमेणैकाद्याः सप्तान्ता रज्जव इति । अथवेषत्प्राग्भारा मनागवनतत्वादिति ।
प्रकृत्या स्वभावेनोदकरसेन युक्ता इति, क्रमेण चैते द्वितीय-तृतीया-ऽन्तिमाः। प्रथम-द्वितीया-ऽन्तिमाः समुद्रा बहुजलचराः, अन्ये त्वल्पजलचरा इति, उक्तं च
लवणे उदगरसेसु य महोरया मच्छ-कच्छहा भणिया। अप्पा सेसेसु भवे न य ते णिम्मच्छया भणिया ॥ [ ] अन्यच्चलवणे कालसमुद्दे सयंभुरमणे य होंति मच्छा उ । अवसेससमुद्देसुं न हुंति मच्छा न मयरा वा ॥ नत्थि त्ति पउरभावं पडुच्च न उ सव्वमच्छपडिसेहो । [बृहत्सं० ९०-९१] इति ॥