________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । ततः परं योनिः प्रम्लायति वर्णादिना हीयते, प्रविध्वस्यते विध्वंसाभिमुखा भवति, विध्वस्यते क्षीयते, एवं च तद् बीजमबीजं भवति उप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति ? ततः परं योनिव्यवच्छेदः प्रज्ञप्तो मयाऽन्यैश्च केवलिभिरिति, शेषं स्पष्टम्।
[सू० १५५] दोच्चाते णं सक्करप्पभाते पुढवीते णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाई ठिती पन्नत्ता १॥ तच्चाते णं वालुयप्पभाते पुढवीते जहन्नेणं णेरइयाणं तिन्नि सागरोवमाइं ठिती पण्णत्ता २॥ पंचमाए णं धूमप्पभाए पुढवीए तिनि निरयावाससतसहस्सा पन्नत्ता १॥ तिसु णं पुढवीसु नेरइया उसिणवेयणा पन्नत्ता, तंजहा-पढमाते, दोच्चाते, तच्चाते ।
तिसु णं पुढवीसु रतिया उसिणं वेयणं पच्चणुभवमाणा विहरंति, तंजहा-पढमाते, दोच्चाते, तच्चाते ३।
[टी०] स्थित्यधिकारादेवेदमपरं सूत्रद्वयमाह- दोच्चेत्यादि स्फुटम्, नवरं द्वितीयायां पृथिव्याम्, किंनामिकायामित्याह- शर्कराप्रभायामित्येवं योजनीयम् ।
नरकपृथिव्यधिकारान्नरक-नारकविशेषस्वरूपप्ररूपणाय सूत्रत्रयमाह- पंचमाए इत्यादि सुबोधम्, केवलम् उसिणवेयण त्ति तिसृणामुष्णस्वभावत्वात् । तिसृषु नारका उष्णवेदना इत्युक्त्वापि यदुच्यते नैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् ।
[सू० १५६] तओ लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहाअप्पतिट्ठाणे णरए, जंबूदीवे दीवे, सव्वट्ठसिद्धे महाविमाणे १॥
तओ लोगे समा सपक्खिं सपडिदिसिं पन्नत्ता, तंजहा-सीमंतए णरए, समयक्खेत्ते, ईसिपब्भारा पुढवी २॥ - [सू० १५७] तओ समुद्दा पगतीते उदगरसेणं पन्नत्ता, तंजहा-कालोदे, पुक्खरोदे, सयंभुरमणे ३।
तओ समुद्दा बहुमच्छ-कच्छभाइण्णा पन्नत्ता, तंजहा-लवणे, कालोदे, सयंभुरमणे ४।