________________
१५८
[टी०] अनन्तरोक्तसर्वार्थसिद्धविमानसाधाद्विमानान्तरनिरूपणायाह- बंभेत्यादि, इह च किण्हा नीला लोहिय त्ति पुस्तकेष्वेवं त्रैविध्यं दृश्यते, स्थानान्तरे च लोहितपीत-शुक्लत्वेनेति, यत उक्तम्
सोहम्मे पंचवन्ना एक्कगहाणी य जा सहस्सारो । दो दो तुल्ला कप्पा तेण परं पुंडरीयाइं ॥ [बृहत्सं० १३२] ति ।
अनन्तरं विमानान्युक्तानि, तानि च देवशरीराश्रया इति देवशरीरमानं त्रिस्थानकानुपात्याह-आणयेत्यादि, भवं जन्मापि यावद्धार्यन्ते भवं वा देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानि च तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थं चेदम्, तस्य लक्षप्रमाणत्वात्, उक्कोसेणं ति उत्कर्षेण, न तु जघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽगुलासङ्ख्येयभागमात्रत्वादिति, शेष कण्ठ्यमिति ।
[सू० १६०] तओ पन्नत्तीओ कालेणं अधिजंति, तंजहा-चंदपन्नत्ती, सूरपन्नत्ती, दीवसागरपन्नत्ती ।
॥ तिट्ठाणस्स पढमओ उद्देसओ समत्तो ॥ [टी०] अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता, तत्प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह- तओ इत्यादि, कालेन प्रथम-पश्चिमपौरुषीलक्षणेन हेतुभूतेनाऽधीयन्ते, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेषं स्पष्टम् ।
॥ इति त्रिस्थानकस्य प्रथम उद्देशको समाप्तः ।।
[अथ द्वितीय उद्देशकः] [सू० १६१] तिविहे लोगे पन्नत्ते, तंजहा-णामलोगे, ठवणालोगे, दव्वलोगे। तिविधे लोगे पन्नत्ते, तंजहा-णाणलोगे, दंसणलोगे, चरित्तलोगे । तिविधे लोगे पन्नत्ते, तंजहा-उड्ढलोगे, अहोलोगे, तिरियलोगे । [टी०] व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य