________________
१५२
पुनरन्यथा तामाह-तिविहेत्यादि, संवृता सङ्कटा घटिकालयवत्, विवृता विपरीता, संवृतविवृता तूभयरूपेति, एतद्विभागोऽयम्
एगिदिय-नेरइया संवुडजोणी हवंति देवा य । विगलिंदियाण वियडा संवुडवियडा य गब्भम्मि ॥ [जीवस० ४५, बृहत्सं० ३५८] त्ति।
कुम्मुन्नयेत्यादि कण्ठ्यम्, नवरं कूर्म: कच्छपः, तद्वदुन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्यां सा शङ्खावर्ता, वंश्या वंशजाल्याः पत्रकमिव या सा वंशीपत्रिका। गन्भं वक्कमंति त्ति गर्भे उत्पद्यन्ते, बलदेव-वासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरुषत्रैविध्यमिति । बहवे इत्यादि, योनित्वाज्जीवाः पुद्गलाश्च तद्ग्रहणप्रायोग्याः, किम् ? व्युत्क्रामन्ति उत्पद्यन्ते, व्यवक्रामन्ति विनश्यन्ति, एतदेव व्याख्यातिविउक्कमंति त्ति, कोऽर्थः ? च्यवन्ते, वक्कमंति त्ति किमुक्तं भवति ? उत्पद्यन्ते इति। पिहज्जणस्स त्ति पृथग्जनस्य सामान्यजनस्योत्पत्तिकारणं भवतीति ।
[सू० १४९] तिविहा तणवणस्सतिकाइया पन्नत्ता, तंजहा-संखेजजीविता असंखेजजीविता अणंतजीविता ।
[टी०] अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यसधर्मणो बादरवनस्पतिकायिकान् प्ररूपयन्नाह– तिविहेत्यादि, तृणवनस्पतयो बादरा इत्यर्थः, सङ्ख्यातजीविकाः सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि जात्यादीनीत्यर्थः, असङ्ख्यातजीविका यथा निम्बाम्रादीनां मूल-कन्द-स्कन्ध-त्वक्-छाखा-प्रवालाः, अनन्तजीविकाः पनकादय इति, इह प्रज्ञापनासूत्राणीत्थम्
जे के वि नालियाबद्धा, पुप्फा संखेज्जजीविया । इत्यादि । [सू० १५०] जंबूदीवे दीवे भारहे वासे तओ तित्था पन्नत्ता, तंजहामागहे, वरदामे, पभासे, एवं एरवए वि । जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्कवट्टिविजये ततो तित्था पन्नत्ता, तंजहा-मागधे, वरदामे, पभासे ३। एवं धायइसंडे दीवे पुरत्थिमद्धे वि ३, पच्चत्थिमद्धे वि ३, पुक्खरवरदीवड्डपुरत्थिमद्धे वि ३, पच्चत्थिमद्धे वि ३।
[टी०] अनन्तर वनस्पतय उक्तास्ते च जलाश्रया बहवो भवन्तीति सम्बन्धाज्जला