________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१५१ [सू० १४८] तिविधा जोणी पन्नत्ता, तंजहा-सीता, उसिणा, सीओसिणा। एवं एगिंदियाणं विगलिंदियाणं तेउकाइयवजाणं संमुच्छिमपंचेंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य ।
तिविहा जोणी पन्नत्ता, तंजहा-सचित्ता, अचित्ता, मीसिता । एवं एगेंदियाणं विगलिंदियाणं संमुच्छिमपंचेंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य ।
तिविधा जोणी पन्नत्ता, तंजहा-संवुडा, वियडा, संवुडवियडा । तिविधा जोणी पन्नत्ता, तंजहा-कुम्मुन्नत्ता, संखावत्ता, वंसीवत्तिया । कुम्मुन्नता णं जोणी उत्तमपुरिसमाऊणं, कुम्मुन्नताते णं जोणीते तिविहा उत्तमपुरिसा गम्भं वक्कमंति, तंजहा-अरहंता, चक्कवट्टी, बलदेव-वासुदेवा । संखावत्ता णं जोणी इत्थीरयणस्स, संखावत्ताते णं जोणीते बहवे जीवा य पोग्गला य वक्कमंति विउक्कमंति चयंति उववजंति, नो चेव णं निप्फजंति । वंसीवत्तिता णं जोणी पिहजणस्स, वंसीवत्तिताते णं जोणीते बहवे पिहज्जणे गन्भं वक्कमंति ।
[टी०] जीवपर्यायाधिकारात् तिविहेत्यादिना गम्भं वक्कमंतीत्येतदन्तेन ग्रन्थेन योनिस्वरूपमाह । तत्र युवन्ति तैजसकार्मणशरीरवन्तः सन्त औदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनि: जीवस्योत्पत्तिस्थानं शीतादिस्पर्शवदिति । एवं ति यथा सामान्यतस्त्रिविधा तथा चतुर्विंशतिदण्डकचिन्तायामेकेन्द्रिय-विकलेन्द्रियाणां तेजोवर्जानाम्, तेजसामुष्णयोनित्वात्, पञ्चेन्द्रियतिर्यपदे मनुष्यपदे च सम्मूर्च्छनजानां त्रिविधा, शेषाणां त्वन्यथेति, यत आहसीओसिणजोणीया सव्वे देवा य गब्भवक्ती । उसिणा य तेउकाए दुह णिरए तिविह सेसाणं ॥ [जीवस० ४७, बृहत्सं० ३६०] ति ।
अन्यथा योनित्रैविध्यमाह- तिविहेत्यादि कण्ठ्यम्, नवरं दण्डकचिन्तायामेकेन्द्रियादीनां सचित्तादिस्त्रिविधा योनिरन्येषां त्वन्यथा, यत उक्तम्
अच्चित्ता खलु जोणी नेरइयाणं तहेव देवाणं । मीसा य गब्भवसही तिविहा जोणी य सेसाणं ॥ [जीवस० ४६, बृहत्सं० ३५९] ति ।