________________
१५०
वाच्याः नारकैकेन्द्रियवर्जाः, तेषामुपकरणस्याभावाद्, द्वीन्द्रियादीनां तूपकरणं दृश्यते एव केषाञ्चिदित्यत एवाह- एवमित्यादि । । __ अहवेत्यादि, सचित्तोपधिर्यथा शैलं भाजनम्, अचित्तो वस्त्रादिः, मिश्रः परिणतप्रायं शैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरं सचित्तोपधिर्नारकाणां शरीरम्, अचेतनः उत्पत्तिस्थानम्, मिश्रः शरीरमेवोच्छ्वासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, एवमेव शेषाणामप्ययमूह्य इति ।
तिविहे परिग्गहेत्यादिसूत्राणि उपधिवन्नेयानि, नवरं परिगृह्यते स्वीक्रियते इति परिग्रहो मूर्छाविषय इति, इह च एषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकैकेन्द्रियाणां कादिरेव सम्भवति, न भाण्डादिरिति ।
[सू० १४७] तिविहे पणिधाणे पन्नत्ते, तंजहा-मणपणिहाणे, वइपणिहाणे, कायपणिहाणे। एवं पंचेंदियाणं जाव वेमाणियाणं ।
तिविधे सुप्पणिधाणे पन्नत्ते, तंजहा-मणसुप्पणिहाणे, वइसुप्पणिहाणे, कायसुप्पणिहाणे । संजतमणुस्साणं तिविधे सुप्पणिहाणे पत्नत्ते, तंजहामणसुप्पणिहाणे, वइसुप्पणिहाणे, कायसुप्पणिहाणे ।।
तिविधे दुप्पणिहाणे पन्नत्ते, तंजहा-मणदुप्पणिहाणे, वइदुप्पणिहाणे, कायदुप्पणिहाणे । एवं पंचेंदियाणं जाव वेमाणियाणं ।
[टी०] पुद्गलधर्माणां त्रित्वं निरूप्य जीवधर्माणां तिविहे इत्यादिभिस्त्रिभिः सदण्डकैः सूत्रैस्तदाह, कण्ठ्यानि चैतानि, नवरं प्रणिहितिः प्रणिधानम् एकाग्रता, तच्च मनःप्रभृतिकभेदात् विधेति, तत्र मनसः प्रणिधानं मनःप्रणिधानमेवमितरे, तच्च चतुर्विंशतिदण्डके सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषां तु नास्ति, योगानां सामस्त्येनाभावादित्यत एवोक्तम्- एवं पदियेत्यादीति । प्रणिधानं हि शुभाशुभभेदम्, अथ शुभमाह- तिविहेत्यादि सामान्यसूत्रम् १ । विशेषमाश्रित्य तु चतुर्विंशतिदण्डकचिन्तायां मनुष्याणामेव तत्रापि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अत एवाह- संजयेत्यादि २ । दुष्प्रणिधानमशुभमनःप्रवृत्त्यादिरूपं सामान्यप्रणिधानवत् व्याख्येयमिति ३।