________________
१४९
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । मध्यमा, पश्चिमे जघन्या, एवं सुषमसुषमादिषु प्रत्येकं त्रयं त्रयं कल्पनीयम्, तथा उत्सर्पिण्याः दुःषमदुःषमादि तद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं प्राग्वद्योज्यमिति ।
[सू० १४६] तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजा, तंजहा-आहारिज्जमाणे वा पोग्गले चलेजा, विकुव्वमाणे वा पोग्गले चलेज्जा, ठाणातो वा ठाणं संकामिजमाणे पोग्गले चलेजा १। ___तिविधे उवधी पन्नत्ते, तंजहा-कम्मोवही, सरीरोवही, बाहिरभंडमत्तोवही। एवं असुरकुमाराणं भाणियव्वं, एवं एगिदिय-नेरइयवजं जाव वेमाणियाणं
__ अहवा तिविधे उवधी पन्नत्ते, तंजहा-सचित्ते, अचित्ते, मीसए । एवं णेरड्याणं निरंतरं जाव वेमाणियाणं ३॥
तिविधे परिग्गहे पन्नत्ते, तंजहा-कम्मपरिग्गहे, सरीरपरिग्गहे, बाहिरभंडमत्तपरिग्गहे । एवं असुरकुमाराणं, एवं एगिदियनेरतियवजं जाव वेमाणियाणं ४॥ ___ अहवा तिविहे परिग्गहे पन्नत्ते, तंजहा-सचित्ते, अचित्ते, मीसए । एवं नेरतियाणं निरंतरं जाव वेमाणियाणं ५।
[टी०] काललक्षणा अचेतनद्रव्यधर्मा अनन्तरमुक्ताः, तत्साधर्म्यात् पुद्गलधान्निरूपयन् सूत्राणि पञ्च चतुरश्च दण्डकानाह- तिहीत्यादि, छिन्नः खड्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह- अच्छिन्नपुद्गल इति, आहारेज्जमाणे त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाच्चलति, जीवेनाकर्षणात्, एवं विक्रियमाणो वैक्रियकरणवशवर्तितयेति, स्थानात् स्थानान्तरं सङ्क्रम्यमाणो हस्तादिनेति ।
उपधीयते पोष्यते जीवोऽनेनेत्युपधिः, कर्मैवोपधिः कर्मोपधिः, एवं शरीरोपधिः, बाह्यः शरीरबहिर्वर्ती, भाण्डानि च भाजनानि मृन्मयानि, मात्राणि च मात्रायुक्तानि कांस्यादिभाजनानि, भोजनोपकरणमित्यर्थः, भाण्डमात्राणि, तान्येवोपधिः भाण्डमात्रोपधिः, अथवा भाण्डं वस्त्राभरणादि, तदेव मात्रा परिच्छदः, सैवोपधिरिति, ततो बाह्यशब्दस्य कर्मधारय इति । चतुर्विंशतिदण्डकचिन्तायामसुरादीनां त्रयोऽपि