________________
१४८ यस्मिन् देशे स दुर्भिक्षस्तस्मात्, संहरेत् नयेत्, कान्तारम् अरण्यम्, निर्गतः कान्तारान्निष्कान्तारस्तं निष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घकालिकस्तेन, रोग: कालसहः कुष्ठादिः, आतङ्कः कृच्छ्रजीवितकारी सद्योघातीत्यर्थः शूलादिः, अनयोर्द्वन्द्वैकत्वे रोगातङ्कं तेनेति, धर्मस्थापनेन तु भवति कृतोपकारः, यदाह
जो जेण जम्मि ठाणम्मि ठाविओ दंसणे व चरणे वा । सो तं तओ चुयं तम्मि चेव काउं भवे निरिणो ॥ [निशीथभा० ५५९३] त्ति । शेष सुगमत्वान्न स्पृष्टमिति । [सू० १४४] तिहिं ठाणेहिं संपन्ने अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीतीवतेजा, तंजहा-अणिदाणयाए, दिट्ठिसंपन्नयाए, जोगवाहियाए ।
[टी०] धर्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति धर्मस्य स्थानत्रयावतारणेन भवच्छेदकारणतामाह- तिहीत्यादि कण्ठ्यम्, नवरम् अनादिकम् आदिरहितमनवदग्रम् अनन्तं दीर्घाध्वं दीर्घमार्गं चत्वारोऽन्ता विभागा नरकगत्यादयो यस्य तच्चतुरन्तम्, दीर्घत्वं प्राकृतत्वात्, संसार एव कान्तारम् अरण्यं संसारकान्तारं तद् व्यतिव्रजेत् व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथाहि- अनाद्यनन्तमरण्यमतिमहत्त्वाच्चतुरन्तं दिग्भेदादिति । निदानं भोगर्द्धिप्रार्थनास्वभावमार्तध्यानम्, तद्विवर्जितता अनिदानता, तया, दृष्टिसम्पन्नता सम्यग्दृष्टिता, तया, योगवाहिता श्रुतोपधानकारित्वं समाधिस्थायिता वा, तयेति ।
[सू० १४५] तिविहा ओसप्पिणी पन्नत्ता, तंजहा-उक्कस्सा, मज्झिमा, जहन्ना १, एवं छप्पि समाओ भाणियव्वाओ जाव दूसमदूसमा ७।
तिविहा उस्सप्पिणी पन्नत्ता, तंजहा-उक्कस्सा, मज्झिमा, जहन्ना ८, एवं छप्पि समाओ भाणियव्वाओ जाव सुसमसुसमा १४।
[टी०] भवव्यतिव्रजनं च कालविशेष एव स्यादिति कालविशेषनिरूपणायाहतिविहेत्यादिसूत्राणि चतुर्दश कण्ठ्यानि, नवरम् अवसर्पिणी प्रथमेऽरके उत्कृष्टा, चतुर्यु