________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१४७ अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद्, आह च
कयउवयारो जो होइ सज्जणो होइ को गुणो तस्स ? । उवयारबाहिरा जे हवंति ते सुंदरा सुयणा ॥ [ ] इति ।
अहे णं से त्ति अथ चेत् णमित्यलङ्कारे स पुरुषस्तम् अम्बापितरं धर्मे स्थापयिता स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः, किं कृत्वेत्याह
आघवइत्ता धर्ममाख्याय प्रज्ञाप्य बोधयित्वा प्ररूप्य प्रभेदत इति, तेणामेव त्ति ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन, तस्य अम्बापितुः सुपडियरं ति सुखेन प्रतिक्रियते इति सुप्रतिकरम्, भावसाधनोऽयम्, तद्भवति, प्रत्युपकारः कृतो भवतीत्यर्थः, धर्मस्थापनस्य महोपकारत्वाद्, आह चसम्मत्तदायगाणं दुप्पडियारं भवेसु बहुएसुं। सव्वगुणमेलियाहि वि उवगारसहस्सकोडीहिं ॥ [उपदेशमाला० २६९] ति ।
अथ भर्तुः दुष्प्रतिकार्यतामाह- केइ त्ति कश्चित् कोऽपि महती ऐश्वर्यलक्षणाऽर्चा ज्वाला पूजा वा यस्य, अथवा महांश्चासावर्थपतितया अर्घ्यश्च पूज्य इति महा! महार्यो वा, माहत्यं महत्त्वं तद्योगान्माहत्यो वा, ईश्वर इत्यर्थः, दरिद्रम् अनीश्वरं कञ्चन पुरुषमतिदुःस्थं समुत्कर्षयेत् धनदानादिनोत्कृष्टं कुर्यात्, ततः समुत्कर्षणानन्तरं स दरिद्रः समुत्कृष्टो धनादिभिः समाणे त्ति सन् पच्छ त्ति पश्चात्काले पुरं च णं ति पूर्वकाले च, समुत्कर्षणकाल एवेत्यर्थः, अथवा पश्चाद् भर्तुरसमक्षं पुरश्च भर्तुः समक्षं च, विपुलया भोगसमित्या भोगसमुदयेन समन्वागतो युक्तो यः स तथा स चापि विहरेत् वर्तेत, ततोऽनन्तरं स महा) भर्ता । सव्वस्सं ति सर्वं च तत् स्वं च द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, दलमाणे त्ति ददत्, न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापि सर्वस्वदानेन सर्वस्वदायकेनापि वा दुष्प्रतिकारमेवेति २। __ अथ धर्माचार्यदुष्प्रतिकार्यतामाह- के इत्यादि, आरियं ति पापकर्मभ्य आराद्यातमित्यार्यमत एव धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण निशम्य मनसाऽवधार्य अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यर्थो देवत्वेनोत्पन्न इति, दुर्लभा भिक्षा