________________
१४६
सम्प्रातरपि च प्रभातसमकालमपि च, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः, कश्चिदिति कुलीन एव, न तु सर्वोऽपि पुरुषो मानवो देवतिरश्चोरेवंविधव्यतिकरासम्भवात्, शतं पाकानाम् ओषधिक्काथानां पाके यस्य १,
ओषधिशतेन वा सह पच्यते यत् २, शतकृत्वो वा पाको यस्य ३, शतेन वा रूपकाणां मूल्यतः पच्यते ४ यत्तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम्, अन्भंगेत्ता अभ्यङ्गं कृत्वा गन्धट्टएणं ति गन्धाट्टकेन गन्धद्रव्यक्षोदेन उद्वर्त्य उद्वलनं कृत्वा त्रिभिरुदकैः गन्धोदकोष्णोदकशीतोदकैः मज्जयित्वा स्नापयित्वा, मनोज्ञं कलमौदनादि, स्थाली पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्वं वा न तथाविधं स्यादितीदं विशेषणमिति, शुद्धं भक्तदोषवर्जितम्, स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः, अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः शालनकैस्तक्रादिभिर्वा आकुलं सङ्कीर्णं यत्तत्तथा, भोजनं भोजयित्वा, एते चाष्टादश भेदा:
सूओ १ दणो २ जवन्नं ३ तिन्नि य मंसाई ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ डागो १३ ॥ होइ रसालू व तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो ॥ [ ] मांसत्रयं जलजादिसत्कं, जूषो मुद्ग-तन्दुल-जीरक-कटुभाण्डादिरसः, भक्ष्याणि खण्डखाद्यादीनि, गुललावणिका गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येक एव पदम्, हरितकं जीरकादेः, डाको वस्तुलादिभर्जिका, रसालू मज्जिका, तल्लक्षणमिदम्
दो घयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा ।। दस खण्डगुलपलाई एस रसालू णिवइजोग ॥ [ ] त्ति ।।
पानं सुरादि, पानीयं जलम्, पानकं द्राक्षापानकादि, शाकः तक्रसिद्ध इति । यावान् जीवो यावज्जीवं यावत्प्राणधारणं पृष्ठौ स्कन्धे अवतंस इवाऽवतंसः शेखरस्तस्य करणमवतंसिका पृष्ठ्यवतंसिका, तया पृष्ठ्यवतंसिकया परिवहेत्, पृष्ठ्यारोपितमित्यर्थः, तेनापि परिवाहकेन परिवहनेन वा तस्य अम्बापितुर्दुःप्रतिकरम्,