SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४४ प्रमोदकलकलस्त्रिभिरेवेति । हव्वं ति शीघ्रम्, सामाणिय त्ति इन्द्रसमानर्द्धयः, तायत्तिंसग त्ति महत्तरकल्पाः पूज्याः, लोकपाला: सोमादयो दिग्नियुक्तकाः, अग्रमहिष्यः प्रधानभार्याः, परिषत् परिवारः, तत्रोपपन्नका ये ते तथा, अनीकाधिपतयो गजादिसैन्यप्रधाना ऐरावतादयः, आत्मरक्षा अङ्गरक्षा राज्ञामिवेति, माणुस्सं लोयं हव्वमागच्छन्तीति प्रतिपदं सम्बन्धनीयम् १५ । मनुष्यलोकागमने देवानां यानि कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकेनाह–तिहीत्यादि कण्ठ्यम्, नवरम् अब्भुट्ठिज्ज त्ति सिंहासनादभ्युत्तिष्ठेयुरिति, आसनानि शक्रादीनां सिंहासनानि, तच्चलनं लोकानुभावादेवेति, सिंहनाद-चेलोत्क्षेपौ प्रमोदकार्यों जनप्रतीतौ, चैत्यवृक्षा ये सुधर्मादिसभानां प्रतिद्वारं पुरतो मुखमण्डपप्रेक्षामण्डप-चैत्यस्तूप-चैत्यवृक्ष-महाध्वजादिक्रमतः श्रूयन्ते। लोकान्तिकानां प्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह- तिहीत्यादि कण्ठ्यम्, नवरं लोकस्य ब्रह्मलोकस्याऽन्तः समीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां ते, लोकान्ते वा औदयिकभावलोकावसाने भवा अनन्तरभवे मुक्तिगमनादिति लोकान्तिका: सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति । [सू० १४३] तिण्हं दुप्पडियारं समणाउसो, तंजहा-अम्मापिउणो, भट्टिस्स, धम्मायरियस्स। [१] संपातो वि य णं केति पुरिसे अम्मापियरं सयपाग-सहस्सपागेहिं तेल्लेहिं अन्भंगेत्ता, सुरभिणा गंधट्टएणं उव्वट्टित्ता, तिहिं उदगेहिं मजावित्ता, सव्वालंकारविभूसियं करेत्ता, मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्ठिवडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ । अहे णं से तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो ! [२] केति महच्चे दरिदं समुक्कसेजा, तते णं से दरिद्दे समुक्किट्टे समाणे
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy