________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१४३
देवा १५ माणुसं लोगं हव्वमागच्छंति । ___ तिहिं ठाणेहिं देवा अब्भुटेजा, तंजहा-अरहंतेहिं जायमाणेहिं जाव तं चेव १, एवमासणाइं चलेजा २, सीहणातं करेजा ३, चेलुक्खेवं करेजा ४। तिहिं ठाणेहिं देवाणं चेतितरुक्खा चलेजा, तंजहा-अरहंतेहिं तं चेव
__ तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छेजा, तंजहाअरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु।
[टी०] विद्युत्कार-स्तनितशब्दावुत्पातरूपावनन्तरमुक्तौ, अथोत्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूत्र्या तिहिं ठाणेहीत्यादिकया प्राह, कण्ठ्या चेयम्, नवरं लोके क्षेत्रलोकेऽन्धकारं तमो लोकान्धकारं स्याद् भवेत् द्रव्यतो लोकानुभावाद्भावतो वा प्रकाशकस्वभावज्ञानाभावादिति, तद्यथा, अर्हन्ति अशोकाद्यष्टप्रकारां परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहालवालविरूढा-नवद्यवासना-जलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलप्रतिपन्थिप्रक्षयात् सिद्धिसौधशिखरारोहणं चेत्यर्हन्तः । तेषु व्यवच्छिद्यमानेषु निर्वाणं गच्छत्सु, तथाऽर्हत्प्रज्ञप्ते धर्मे व्यवच्छिद्यमाने तीर्थव्यवच्छेदकाले, तथा पूर्वाणि दृष्टिवादाङ्गभागभूतानि गतं प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छ्रुतं तत् पूर्वगतम् तत्र व्यवच्छिद्यमाने, इह च राजमरणदेशनगरभङ्गादावपि दृश्यते दिशामन्धकारमात्रं रजस्वलतयेति, यत् पुनर्भगवत्स्वर्हदादिषु निखिलभुवनजनानवद्यनयनसमानेषु विगच्छत्सु लोकान्धकारं भवति तत् किमद्भुतमिति?।
लोकोद्योतो लोकानुभावान्मनुष्यलोके देवागमाद्वा, नाणुप्पयमहिमासु केवलज्ञानोत्पादे देवकृतमहोत्सवेष्विति ।
तिहीत्यादि देवानां भवनादिष्वन्धकारं देवान्धकारं लोकानुभावादेवेति । लोकान्धकारे उक्तेऽपि यद्देवान्धकारमुक्तम्, तत् सर्वत्रान्धकारसद्भावप्रतिपादनार्थमिति।
एवं देवोद्योतोऽपि देवसन्निपातो भुवि तत्समवतारो, देवोत्कलिका तत्समवायविशेषः, एवमिति त्रिभिरेव स्थानैः, देवकहकहे त्ति देवकृतः