________________
तृतीयमध्ययनं त्रिस्थानकम । प्रथम उद्देशकः ।
१४१ सद्भावादविशेषणो निर्देशः, असुरकुमाराणां तु चतसृणां भावात् संक्लिष्टा इति विशेषितम्, चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु सा न संक्लिष्टेति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह– एवं पुढवीत्यादि, पृथिव्यब्वनस्पतिषु देवोत्पादसम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः । तेजो-वायु-द्वि-त्रि-चतुरिन्द्रियेषु तु देवानुत्पत्त्या तदभावान्निर्विशेषण इत्यत एवाह- तओ इत्यादि । पञ्चेन्द्रियतिरश्चां मनुष्याणां च षडपीति संक्लिष्टासंक्लिष्टविशेषणतश्चतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोक्ते इति व्यन्तरसूत्रे संक्लिष्टा वाच्याः, अत एवोक्तं वाणमंतरेत्यादि । वैमानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात्, व्यवच्छेद्याभावेन विशेषणायोगादिति। ज्योतिष्कसूत्रं नोक्तम्, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवतारादिति ।
[सू० १४१] तिहिं ठाणेहिं तारारूवे चलेजा, तंजहा-विकुव्वमाणे वा, परियारेमाणे वा, ठाणातो वा ठाणं संकममाणे तारारूवे चलेजा ।
तिहिं ठाणेहिं देवे विजुतारं करेजा, तंजहा-विकुव्वमाणे वा, परियारेमाणे वा, तहारूवस्स समणस्स वा माहणस्स वा इढेि जुतिं जसं बलं वीरियं पुरिसगारपरक्कम उवदंसेमाणे देवे विजुतारं करेजा ।
तिहिं ठाणेहिं देवे थणियसदं करेजा, तंजहा-विकुव्वमाणे, एवं जहा विजुतारं तहेव थणितसई पि ।
[टी०] अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तः, ज्योतिष्काणां तु तथा तदसम्भवाच्चलनधर्मेण तमाह- तारारूवे त्ति तारकमानं चलेज्जा स्वस्थानं त्यजेत्, वैक्रियं कुर्वद्वा, परिचारयमाणं वा मैथुनार्थं संरम्भयुक्तमित्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङ्क्रामत् गच्छदित्यर्थः, यथा धातकीखण्डादिमेरुं परिहरदिति, अथवा क्वचिन्महर्द्धिके देवादौ चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थं चलेदिति, उक्तं चतत्थ णं जे से वाघाइए अंतरे से जहन्नेणं दोन्नि छावढे जोयणसए, उक्कोसेणं बारस जोयणसहस्साइं [जम्बूद्वीपप्र० ७।३५०] ति, तत्र व्याघातिकमन्तरं महर्द्धिकदेवस्य मार्गदानादिति ।
अनन्तरं तारकदेवचलनक्रियाकारणान्युक्तानि, अथ देवस्यैव विद्युत्स्तनितक्रिययोः