________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१३९ पक्खी तिविधा पन्नत्ता, तंजहा-इत्थी, पुरिसा, णपुंसगा २। पोतजा पक्खी तिविहा पन्नत्ता, तंजहा-इत्थी, पुरिसा, णपुंसगा ३॥
एवमेतेणं अभिलावेणं उरपरिसप्पा वि भाणियव्वा ३, भुजपरिसप्पा वि भाणियव्वा एवं चेव ३[१२] ।
[टी०] उक्तं मनुष्यपुरुषाणां त्रैविध्यमधुना सामान्यतस्तिरश्चां जलचर-खचरस्थलचरविशेषाणां तिविहा मच्छेत्यादिसूत्रै‘दशभिस्तदाह, सुगमानि चैतानि, नवरम् अण्डाज्जाता अण्डजाः, पोतं वस्त्रं तद्वज्जरायुवर्जितत्वाज्जाताः, पोतजा: हस्त्यादयः, सम्मूर्छिमा अगर्भजा इत्यर्थः, सम्मूर्च्छिमानां स्त्र्यादिभेदो नास्ति नपुंसकत्वात्तेषामिति स सूत्रे न दर्शित इति । ___पक्षिणोऽण्डजाः हंसादयः, पोतजा वल्गुलीप्रभृतयः, सम्मूर्छिमाः खञ्जनकादयः, उद्भिज्जत्वेऽपि तेषां सम्मूर्छजत्वव्यपदेशो भवत्येव, उद्भिज्जादीनां सम्मूर्च्छनजविशेषत्वादिति ।
एवमिति पक्षिवत्, एतेन प्रत्यक्षेणाभिलापेन ‘तिविहा उरपरिसप्पे'त्यादिसूत्रत्रयलक्षणेन, उरसा वक्षसा परिसर्पन्तीति उरःपरिसर्पाः सर्पादयस्तेऽपि भणितव्याः, तथा भुजाभ्यां बाहुभ्यां परिसर्पन्ति ये ते तथा नकुलादयस्तेऽपि भणितव्याः। एवं चेव त्ति, एवमेव यथा पक्षिणस्तथैवेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः ।
[सू० १३९] [१] तिविहाओ इत्थीओ पन्नत्ताओ, तंजहातिरिक्खजोणियाओ, मणुस्सित्थीओ, देवित्थीओ १॥ तिरिक्खजोणित्थीओ तिविधातो पन्नत्ताओ, तंजहा-जलचरीओ, थलचरीओ, खहचरीओ २। मणुस्सित्थीओ तिविधाओ पन्नत्ताओ, तंजहा-कम्मभूमियाओ, अकम्मभूमियाओ, अंतरदीविगाओ ३॥
[२] तिविधा पुरिसा पन्नत्ता, तंजहा-तिरिक्खजोणियपुरिसा, मणुस्सपुरिसा, देवपुरिसा १॥ तिरिक्खजोणियपुरिसा तिविधा पन्नत्ता, तंजहा-जलचरा, थलचरा, खहचरा २। मणुस्सपुरिसा तिविधा पन्नत्ता, तंजहा-कम्मभूमया,