________________
कारिणोऽर्थिषु वृक्षाः तथा लोकोत्तरपुरुषाः सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च ‘पत्तोवग' इत्यादौ वाच्ये पत्तोवा इत्यादि प्राकृतलक्षणवशादुक्तम्, ‘समाण' इत्यत्रापि ‘सामाण' इति।
अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या निरूपयन्नाह- तओ इत्यादि कण्ठ्यम्, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरुषप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽनेन्द्रसूत्राद् द्रष्टव्यो भवति। भावपुरुषभेदाः पुनर्ज्ञानपुरुषादयः । ज्ञानलक्षणभावप्रधानः पुरुषो ज्ञानपुरुषः, एवमितरावपि। वेदः पुरुषवेदः, तदनुभवनप्रधानः पुरुषो वेदपुरुषः, स च स्त्री-पुं-नपुंसकसम्बन्धिषु त्रिष्वपि लिङ्गेषु भवतीति । तथा पुरुषचिह्नः श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिह्नपुरुषः, यथा नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिह्नपुरुषस्तेन चिह्नयते पुरुष इति कृत्वेति, पुरुषवेषधारी वा स्त्र्यादिरिति । अभिलप्यतेऽनेनेति अभिलापः शब्दः, स एव पुरुषः पुल्लिँङ्गतया अभिधानात् यथा घटः कुटो वेति ।। __धम्मपुरिस त्ति धर्मः क्षायिकचारित्रादिः, तदर्जनपराः पुरुषाः धर्मपुरुषाः, उक्तं चधम्मपुरिसो तयज्जणवावारपरो जहा साहु ॥ [विशेषाव० २०९३] त्ति ।
भोगा: मनोज्ञाः शब्दादयः, तत्पराः पुरुषा भोगपुरुषाः । कम्म त्ति कर्माणि महारम्भादिसम्पाद्यानि नरकायुष्कादीनीति। उग्रा भगवतो नाभेयस्य राज्यकाले ये आरक्षका आसन्, भोगास्तत्रैव गुरवः, राजन्यास्तत्रैव वयस्याः ।
[तद्वंशजा अपि तत्तद्व्यपदेशा इति । ] एषां च मध्यमत्वमनुत्कृष्टत्वाजघन्यत्वाभ्यामिति। दासा दासीपुत्रादयः, भृतकाः मूल्यतः कर्मकराः, भाइल्लग त्ति भागो विद्यते येषां ते भागवन्तः शुद्ध-चातुर्थिकादय इति ।
[सू० १३८] तिविधा मच्छा पन्नत्ता, तंजहा-अंडया, पोतया, संमुच्छिमा १। अंडया मच्छा तिविहा पन्नत्ता, तंजहा-इत्थी, पुरिसा, णपुंसगा २। पोतया मच्छा तिविहा पन्नत्ता, तंजहा-इत्थी, पुरिसा, णपुंसगा ३॥ तिविधा पक्खी पन्नत्ता, तंजहा-अंडया पोतया, संमुच्छिमा । अंडया