________________
१३६
तिम्रोऽगुप्तयो वाच्याः, शेष कण्ठ्यम्, नवरमिहैकेन्द्रिय-विकलेन्द्रिया नोक्ताः, वाङ्मनसयोस्तेषां यथायोगमसम्भवात्, संयतमनुष्या अपि नोक्ताः, तेषां गुप्तिप्रतिपादनादिति ।
अगुप्तयश्चात्मनः परेषां च दण्डनानि भवन्तीति दण्डान्निरूपयन्नाह- तओ दण्डेत्यादि कण्ठ्यम्, नवरं मनसा दण्डनमात्मनः परेषां चेति मनोदण्डः, अथवा दण्ड्यते अनेनेति दण्डः, मन एव दण्डो मनोदण्ड इति, एवमितरावपि, विशेषचिन्तायां चतुर्विंशतिदण्डके नेरइयाणं तओ दंडा इत्यादि यावद्वैमानिकानामिति सूत्रं वाच्यम्, नवरं विगलिंदियवज्जं ति एक-द्वि-त्रि-चतुरिन्द्रियान् वर्जयित्वेत्यर्थः, तेषां हि दण्डत्रयं न सम्भवति, यथायोगं वाङ्-मनसयोरभावादिति ।
[सू० १३५] तिविहा गरहा पत्नत्ता, तंजहा-मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगे गरहति पावाणं कम्माणं अकरणयाए । __ अहवा गरहा तिविहा पन्नत्ता, तंजहा-दीहं पेगे अद्धं गरहति, रहस्सं पेगे अद्ध गरहति, कायं पेगे पडिसाहरति पावाणं कम्माणं अकरणयाए ।
[टी०] दण्डश्च गर्हणीयो भवतीति गहीं सूत्राभ्यामाह- तिविहेत्यादि सूत्रद्वयं गतार्थम्, नवरं गर्हते जुगुप्सते दण्डं स्वकीयं परकीयम् आत्मानं वा कायसा वि त्ति सकारस्यागमिकत्वात् कायेनाप्येकः, कथमित्याह- पापानां कर्मणामकरणतया हेतुभूतया, हिंसाधकरणेनेत्यर्थः, कायगर्दा हि पापकर्माप्रवृत्त्यैव भवतीति भावः, उक्तं चपापजुगुप्सा तु तथा सम्यक् परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः ॥ [षोडशक० ४।५] इति ।
अथवा पापकर्मणामकरणतायै तदकरणार्थं त्रिधाऽपि गर्हते, अथवा चतुर्थ्यर्थे षष्ठी, ततः पापेभ्यः कर्मभ्यो गर्हते, तानि जुगुप्सत इत्यर्थः, किमर्थम् ? अकरणतायै ‘मा कार्षमहमेतानि इति ।
दीहं पेगे अद्धं ति दीर्घ कालं यावत्, तथा कायमप्येकः प्रतिसंहरति निरुणद्धि, कया ? पापानां कर्मणामकरणतया हेतुभूतया, तदकरणेन तदकरणतायै वा तेभ्यो वा गर्हते, कायं वा प्रतिसंहरति तेभ्यः, अकरणतायै तेषामेवेति ।