________________
१३५
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात्, तस्मादिह प्रासुकैषणीयस्य कल्पा(ल्प्या?)प्राप्तावितरस्य चेदं फलमवसेयम्, अथवा भावप्रकर्षविशेषादनेषणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यत्वाच्चित्तपरिणतेः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, भरतादीनामिवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षः तृतीयमशुभदीर्घायु:सूत्रं चतुर्थं तद्विपक्ष इति न पुनरुक्ततेति ।
[सू० १३४] ततो गुत्तीतो पन्नत्ताओ, तंजहा-मणगुत्ती, वतिगुत्ती, कायगुत्ती। संजतमणुस्साणं ततो गुत्तीओ पण्णत्ताओ, तंजहा-मणगुत्ती, वइगुत्ती, कायगुत्ती।
तओ अगुत्तीओ पन्नत्ताओ, तंजहा-मणअगुत्ती, वइअगुत्ती, कायअगुत्ती। एवं नेरइताणं जाव थणियकुमाराणं, पंचिंदियतिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं । ___ ततो दंडा पन्नत्ता, तंजहा-मणदंडे, वइदंडे, कायदंडे । [नेरइयाणं तओ दंडा पण्णत्ता, तंजहा-मणदंडे, वइदंडे, कायदंडे ।] विगलिंदियवजं जाव वेमाणियाणं । [टी०] प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह- तओ इत्यादि कण्ठ्यम् । नवरं गोपनं गुप्तिः मनःप्रभृतीनां कुशलानां प्रवर्त्तनमकुशलानां च निवर्त्तनमिति, आह च
मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयकेऊहिं । पवियारेयररूवा णिहिट्ठाओ जओ भणियं ॥ समिओ णियमा गुत्तो गुत्तो समियत्तणम्मि भइयव्वो । कुसलवइमुईरेतो जं वइगुत्तो वि समिओ वि ॥
निशीथभा० ३७, बृहत्कल्प० ४४५१, उपदेशपद ६०४-५] त्ति । एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानाम्, न तु नारकादीनामित्यत आह– संजयमणुस्साणमित्यादि कण्ठ्यम् ।
उक्ता गुप्तयस्तद्विपर्ययभूता अथागुप्तीराह- तओ इत्यादि कण्ठ्यम् । विशेषतश्चतुर्विंशतिदण्डके एता अतिदिशन्नाह– एवमित्यादि, एवमिति सामान्यसूत्रवन्नारकादीनां