________________
१३४
युर्दीर्घताकारणान्याह-तिहिं ति प्राग्वत्, नवरम् अशुभदीर्घायुष्टायै इति नारकायुष्कायेति भावः, तथाहि- अशुभं च तत् पापप्रकृतिरूपत्वात् दीर्घ च तस्य जघन्यतोऽपि दशवर्षसहस्रस्थितिकत्वादुत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वा-दशुभदीर्घम्, तदेवंभूतमायुः जीवितं यस्मात् कर्मणस्तदशुभदीर्घायुः, तद्भावस्तत्ता, तस्यै तया वेति, प्राणान् प्राणिन इत्यर्थोऽतिपातयिता भवति मृषावादं वक्ता भवति तथा श्रमणमाहनादीनां हीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना, हीलनं तु जात्याधुघट्टनतः, निन्दनं मनसा, खिंसनं जनसमक्षम्, गर्हणं तत्समक्षम्, अपमाननमनभ्युत्थानादिभिः, अन्यतरेण बहूनां मध्ये एकतरेण, क्वचित्त्वन्यतरेणेति न दृश्यते, अमनोज्ञेन स्वरूपतोऽशोभनेन कदन्नादिनाऽत एवाऽप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव, तत्फलत्वाद्, आर्यचन्दनाया इव, आर्यचन्दनया हि कुल्माषाः सूर्पकोणकृता भगवते महावीराय पञ्चदिनोनषाण्मासिकक्षपणपारणके दत्ताः, तदैव च तस्या लोहनिगडानि हेममयनूपुरौ सम्पन्नौ, केशाः पूर्ववदेव जाताः, पञ्चवर्णविविधरत्नराशिभिर्गेहं भृतम्, सेन्द्रदेव-दानव-नरनायकैरभिनन्दिता कालेनावाप्तचरित्रा च सिद्धिसौधशिखरमुपगतेति, इह च सूत्रेऽशनादि प्रासुकाप्रासुकत्वादिना न विशेषितम्, हीलनादिकर्तुः प्रासुकादिविशेषणस्य फलविशेषं प्रत्यकारणत्वात्, मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणत्वादिति । प्राणातिपातमृषावादयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेर्नरकायुः, यदाहमिच्छादिट्ठी महारंभपरिग्गहो तिव्वलोहनिस्सीलो। नरयाउयं निबंधइ पावमती रोद्दपरिणामो ॥ [बन्धशतक० २०] त्ति ।
उक्तविपर्ययेणाधुनेतरदाह- तिहिमित्यादि पूर्ववत् । नवरं वन्दित्वा स्तुत्वा नमस्यित्वा प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणं समृद्धिः, तद्धेतुत्वात् साधुरपि कल्याणम्, एवं मंगलं विघ्नक्षयः, तद्योगान्मङ्गलम्, दैवतमिव देवतेव दैवतम्, चैत्यमिव जिनादिप्रतिमेव चैत्यं श्रमणं पर्युपास्य उपसेव्येति, इहापि प्रासुकापासुकतया दानं न विशेषितम्, पूर्वसूत्रविपर्ययत्वादस्य, पूर्वसूत्रस्य