________________
१३३
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । तह वि तई परिसुद्धा गिहीण कूवाहरणजोगा ॥ असदारंभपवत्ता जं च गिही तेण तेसिं विन्नेया । तन्निवित्तिफलच्चिय एसा परिभावणीयमिदं ॥ [पञ्चाशक० ४।४२-४३] ति ।
दानाधिकारे तु श्रूयते द्विविधाः श्रमणोपासकाः संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति, यथोक्तम्
संविग्गभावियाणं लोद्धयदिटुंतभावियाणं च । मोत्तूण खेत्तकाले भावं च कहिंति सुद्धञ्छं ॥ [निशीथभा० १६४९] ति । तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति, संविग्नभावितास्त्वौचित्येनेति, तच्चेदम्संथरणम्मि असुद्धं दोण्ह वि गेण्हन्त-देंतयाणऽहियं । आउरदिटुंतेणं तं चेव हितं असंथरणे ॥ [निशीथभा० १६५०] इति । तथा णायागयाणं कप्पणिज्जाणं अन्न-पाणाईणं दव्वाणं देस-काल-सद्धा-सक्कार-कमजुयं [आव० सू० ६] इत्यादि ।
गम्भीरार्थं चेदं सूत्रमतोऽन्यथाऽपि भावनीयमिति ।
अल्पायुष्कताकारणान्युक्तान्यधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याहतिहिं ति प्राग्वदवसेयम्, नवरं दीहाउयत्ताए त्ति शुभदीर्घायुष्टायै शुभदीर्घायुष्टया वेति प्रतिपत्तव्यम्, प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वाद्, उक्तं च
महवय - अणुव्वएहि य बालतवोऽकामनिज्जराए य ।
देवाउयं निबंधइ सम्मट्टिी य जो जीवो ॥ [बन्धशतक० २३] तथा - पयईए तणुकसाओ दाणरओ सील-संजमविहूणो ।
मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥ [बन्धशतक० २२] देव-मनुष्यायुषी च शुभे इति । तथा भगवत्यां दानमुद्दिश्योक्तम्- समणोवासयस्स णं भंते ! तहारूवं समणं वा २ फासुएसणिज्जेणं असण ४ पडिलाभेमाणस्स किं कज्जइ?, गोयमा !, एगंतसो निज्जरा कज्जइ, णो से [ केइ ] पावे कम्मे कज्जइ [भगवती० ८।६।१] इति, यच्च अतिनिर्जराकारणं तच्छुभदीर्घायु:कारणतया न विरुद्धम्, महाव्रतवदिति ।
अनन्तरमायुषो दीर्घताकारणान्युक्तानि, तच्च शुभाशुभमिति तत्रादौ तावदशुभा