________________
१३२
___ अथ नैतदेवम्, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद्, अतः कथमभिधीयते सविशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कतेति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यम्, यत इतस्तृतीयसूत्रे प्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ?, गोयमा !, बहुतरिया से निज्जरा कज्जइ, अप्पतराए से पावे कम्मे कज्जइ [भगवती० ८।६।२] त्ति भगवतीवचनश्रवणादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपाप-बहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, अथाप्रासुकदानस्य भवतूक्ताऽल्पायुष्टा, प्राणातिपात-मृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम्, एकयोगप्रवृत्तत्वाद् अविरुद्धत्वाच्चेति । अथ मिथ्यादृष्टिश्रमण-ब्राह्मणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते, इतराभ्यां तु को विचार इति ?, नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकत्वात्, प्रासुकदानस्यापि अल्पायुष्कफलत्वाविरोधाद्, उक्तं च भगवत्याम्- समणोवासयस्स णं भंते ! तहारूवं असंजयअविरयअपडिहयअपच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणं ४ पडिलाभेमाणस्स किं कज्जइ ?, गोयमा !, एगंतसो पावे कम्मे कज्जइ, नो से काइ निज्जरा कज्जइ [भगवती० ८।६।३] त्ति, यच्च पापकर्मण एव कारणं तदल्पायुष्टाया अपि कारणमिति । नन्वेवं प्राणातिपात-मृषावादावप्रासुकदानं च कर्त्तव्यमापन्नमिति ?, उच्यते, आपद्यतां नाम भूमिकापेक्षया, को दोषः ?, यतः
अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः ॥ [हारि० अष्टक० २१५] तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम्एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति ॥ [षोडशक० ६।१४] तथाभण्णइ जिणपूयाए कायवहो जइ वि होइ उ कहिंचि ।