________________
१३१
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । शीलार्थतन्नन्तमिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा तत्प्रकारं रूपं स्वभावो नेपथ्यादि वा यस्य स तथारूप: दानोचित इत्यर्थः, तम्, श्राम्यति तपस्यतीति श्रमणः तपोयुक्तस्तम्, मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो मूलगुणधरस्तम्, वाशब्दौ विशेषणसमुच्चयार्थी, प्रगता असवः असुमन्तः प्राणिनो यस्मात् तत् प्रासुकम्, तन्निषेधादप्रासुकं सचेतनमित्यर्थः, तेन, एष्यते गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं कल्प्यं तन्निषेधादनेषणीयम्, तेन, अश्यते भुज्यते इत्यशनं च
ओदनादि, पीयत इति पानं च सौवीरादि, खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य निर्वर्त्यमानत्वादिति खादिमं च भक्तौषधादि, स्वादनं स्वादः तेन निर्वृत्तं स्वादिमं दन्तपवनादीति समाहारद्वन्द्वः, तेन, गाथाश्चात्र
असणं ओदण-सत्तुग-मुग्ग-जगाराइ खज्जगविही य । खीराइ सूरणादी मंडगपभिती य विन्नेयं ॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सव्वो कक्कडगजलाइयं च तहा ॥ भत्तोसं दंताई खज्जूरं नालिकेर-दक्खाई। कक्कडिगंबग-फणसादि बहुविहं खाइमं नेयं ॥ दंतवणं तंबोलं चित्तं अज्जग-कुहेडगादीयं । महुपिप्पलिसुंठादी अणेगहा सादिमं होइ ॥ [पञ्चाशक० ५।२७-३०] त्ति ।
प्रतिलम्भयिता लाभवन्तं करोतीत्येवंशीलो यश्च भवति, ते अल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रमः, इच्चेएहिं ति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानैः जीवा अल्पायुष्टया कर्म कुर्वन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति। इयं चास्य सूत्रस्य भावना– अध्यवसायविशेषेणैतत्त्रयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु प्रवर्त्तते तस्य सरागसंयम-निरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया ।