________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१२९ [मनसा करणेन युक्तस्य जीवस्य] योगो वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति, स च चतुर्विधः सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगो असत्यमृषामनोयोगश्चेति, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरं स सप्तविधः
औदारिकौ १ दारिकमिश्र २ वैक्रिय ३ वैक्रियमिश्रा ४ ऽऽहारका ५ ऽऽहारकमिश्र ६ कार्मणकाययोग ७ भेदादिति । ___सामान्येन योगं प्ररूप्य विशेषतो नारकादिषु चतुर्विंशतौ पदेषु तमतिदिशन्नाहएवमित्यादि कण्ठ्यम्, नवरमतिप्रसङ्गपरिहारायेदमुक्तं-विगलिंदियवज्जाणं ति, तत्र विकलेन्द्रियाः अपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोग एव, द्वि-त्रि-चतुरिन्द्रियाणां तु काययोग-वाग्योगाविति । ___ मनःप्रभृतिसम्बन्धेनैवेदमाह-तिविहे पओगे इत्यादि कण्ठ्यम्, नवरं मनःप्रभृतीनां व्याप्रियमाणानां जीवेन हेतुकर्तृभूतेन यद् व्यापारणं प्रयोजनं प्रयोगः, मनसः प्रयोगो मनःप्रयोगः, एवमितरावपि, जहेत्याद्यतिदेशसूत्रं पूर्ववद्भावनीयमिति । मनःप्रभृतिसम्बन्धेनैवेदमपरमाह-तिविहे करणे इत्यादि कण्ठ्यम्, नवरं क्रियते येन तत् करणं मननादिक्रियासु प्रवर्त्तमानस्यात्मन उपकरणभूतस्तथा-तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्र मन एव करणं मनःकरणम्, एवम् इतरे अपि, एवमित्याद्यतिदेशसूत्रं पूर्ववदेव भावनीयमिति, अथवा योग-प्रयोग-करणशब्दानां मनःप्रभृतिकमभिधेयतया योग-प्रयोग-करणसूत्रेष्वभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतया आगमे बहुशः प्रवृत्तिदर्शनात् ।
प्रकारान्तरेण करणत्रैविध्यमाह- तिविहे इत्यादि, आरम्भणमारम्भः पृथिव्याधुपमर्दनम्, तस्य कृतिः करणं स एव वा करणमित्यारम्भकरणम्, एवमितरे अपि वाच्ये, नवरमयं विशेषः संरम्भकरणं पृथिव्यादिविषयमेव मनःसङ्क्लेशकरणम्, समारम्भकरणं तेषामेव सन्तापकरणमिति, आह चसंकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सुद्धनयाणं तु सव्वेसिं ॥ [व्यवहारभा० ४६] ति ॥ इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशन्नाह