________________
१२८
योनि १ मंदुत्व २ मस्थैर्य ३ मुग्धता ४ क्लीबता ५ स्तनौ ६ । पुंस्कामितेति ७ लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते ॥ मेहनं १ खरता २ दाढ्यं ३ शौण्डीर्यं ४ श्मश्रु ५ धृष्टता ६ । स्त्रीकामितेति ७ लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥
का ॥ स्तनादि-श्मश्रु-केशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ [ ] तथाऽन्यत्राप्युक्तम्स्तन-केशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च, तदभावे नपुंसकम् ॥ [ ] इत्यादि । [सू० १३२] तिविहे जोगे पन्नत्ते, तंजहा-मणजोगे, वतिजोगे, कायजोगे। एवं णेरइयाईणं विगलिंदियवजाणं जाव वेमाणियाणं ।
तिविहे पओगे पन्नत्ते, तंजहा-मणपओगे, वतिपओगे, कायपओगे। जहा जोगो विगलिंदियवजाणं तधा पओगो वि ।।
तिविहे करणे पन्नत्ते, तंजहा-मणकरणे, वतिकरणे, कायकरणे । एवं विगलिंदियवजं जाव वेमाणियाणं ।
तिविहे करणे पन्नत्ते, तंजहा-आरंभकरणे, संरंभकरणे, समारंभकरणे । निरंतरं जाव वेमाणियाणं ।
[टी०] एते च योगवन्तो भवन्तीति योगप्ररूपणायाह- तिविहे जोए इत्यादि, इह वीर्यान्तरायक्षय-क्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्यं योगः ।
स च द्विधा सकरणोऽकरणश्च, तत्रालेश्यस्य केवलिनः कृत्स्नयो य-दृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैव व्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या। युज्यते जीवः कर्मभिर्येन कम्मं जोगनिमित्तं बज्झइ (उपदेशपद० ४७१] ति वचनार युक्त वा प्रयुक्त यं पर्यायं स योगो वीर्यान्तरायक्षय-क्षयोपशमजनितो जीवपरिणामविशेष इति।