________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१२७ णो अप्पणिजियाओ [देवीओ अभिमुंजिय २ परितारेति], अप्पाणमेव अप्पणा विकुब्विय २ परियारेति ।
[टी०] अनन्तरसूत्रे कतिसंचितादिको धर्मो वैमानिकानां देवानामुक्तः, अधुना देवानां सामान्येन परिचारणाधर्मनिरूपणायाह- तिविहा परीत्यादि कण्ठ्यम्, नवरं परिचारणा देवमैथुनसेवेति, एकः कश्चिद्देवो न सर्वोऽप्येवमिति, किम् ? अण्णे देवे त्ति अन्यान् देवान् अल्पर्धिकान् तथाऽन्येषां देवानां सत्का देवीश्चाभियुज्याभियुज्य आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति परिभुङ्क्ते वेदबाधोपशमायेति । न च न सम्भवति देवस्य देवसेवा पुंस्त्वेनेत्याशङ्कनीयम्, मनुष्येष्वपि तथा श्रवणात्, न चात्रार्थे नरा-ऽमरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देव-देवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेकः क्रियाभिसम्बन्ध इति । एवमात्मीया देवी: परिचारयतीति द्वितीयः । तथाऽऽत्मानमेव परिचारयति, कथम् ? आत्मना विकृत्य परिचारणायोग्य विधायेति तृतीयः । एवं प्रकारत्रयरूपाऽप्येकेयं परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति । अथाऽन्यो देव आद्यप्रकारपरिहारेणाऽन्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात् । तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनान्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पर्धिकदेवविशेषस्वामिकत्वादिति ।
[सू० १३१] तिविहे मेहुणे पन्नत्ते, तंजहा-दिव्वे, माणुस्सते, तिरिक्खजोणीते।
तओ मेहुणं गच्छंति, तंजहा-देवा, मणुस्सा, तिरिक्खजोणिता । तओ मेहुणं सेवंति, तंजहा-इत्थी, पुरिसा, णपुंसगा ।
टी०] परिचारणेति मैथुनविशेष उक्तः, अधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाहतिविहे मेहुणे इत्यादि कण्ठ्यम्, नवरं मिथुनं स्त्रीपुंसयुग्मम्, तत्कर्म मैथुनम्, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थं नास्त्येवेति नोक्तम् । मिथुनकर्मण एव कारकानाह– तओ इत्यादि कण्ठ्यम् । तेषामेव भेदानाह– तओ मेहुणमित्यादि कण्ठ्यम्,नवरं स्त्र्यादिलक्षणमिदमाचक्षते विचक्षणाः