________________
१२६ अवत्तव्वगसंचिता । एवमेगिंदियवजा जाव वेमाणिया ।
[टी०] अनन्तरं विकुर्वणोक्ता, सा च नारकाणामप्यस्तीति नारकान्निरूपयन्नाहतिविहेत्यादि कण्ठ्यम्, नवरं कतीत्यनेन सङ्ख्यावाचिना व्यादयः सङ्ख्यावन्तोऽभिधीयन्ते, अयं चान्यत्र प्रश्नविशिष्टसङ्ख्यावाचकतया रूढोऽपीह सङ्ख्यामात्रे द्रष्टव्यः, तत्र नारकाः कति सङ्ख्याताः एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः कत्युत्पत्तिसाधाद् बुद्ध्या राशीकृतास्ते कतिसञ्चिताः, तथा न कति न सङ्ख्याता इत्यकति असङ्ख्याता अनन्ता वा, तत्र ये अकति असङ्ख्याताः एकैकसमये उत्पन्नाः सन्तस्तथैव सञ्चितास्ते अकतिसञ्चिताः, तथा यः परिमाणविशेषो न कति नाप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः, स चैक इति तत्सञ्चिता अवक्तव्यकसञ्चिताः, समये समये एकतयोत्पन्ना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्ख्येयान्ताः, उक्तं च
एगो व दो व तिनि व संखमसंखा व एगसमएणं । उववज्जंतेवइया उव्वटुंता वि एमेव ॥ [बृहत्सं० १५६] त्ति ।
एवमिति नारकवच्छेषाश्चतुर्विंशतिदण्डकोक्ता वाच्या एकेन्द्रियवर्जाः, यतस्तेषु प्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः सङ्ख्याता वा इति, आह च
अणुसमयमसंखेज्जा संखेज्जाऊय तिरिय मणुया य । एगिदिएसु गच्छे आरा ईसाणदेवा य ॥ [बृहत्सं० ३३५] एगो असंखभागो वट्टइ उव्वट्टणोववायम्मि । एगनिगोए निच्चं एवं सेसेसु वि स एव ॥ [बृहत्सं० ३३५ प्रक्षेप०] त्ति । [सू० १३०] तिविहा परियारणा पन्नत्ता, तंजहा-एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ अभिजिय २ परियारेति, अप्पणिज्जियाओ देवीओ अभिमुंजिय २ परियारेति, अप्पाणमेव अप्पणा विकुब्विय २ परियारेति । एगे देवे णो अन्ने देवे णो अन्नेसिं देवाणं देवीओ अभिजुंजिय २ परियारेति, अप्पणिज्जियाओ देवीओ अभिमुंजिय २ परियारेइ, अप्पाणमेव अप्पणा विकुव्विय २ परियारेति। एगे देवे णो अन्ने देवे णो अन्नेसिं देवाणं देवीओ